घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥
gharmā samantā trivṛtaṁ vy āpatus tayor juṣṭim mātariśvā jagāma | divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam ||
घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ । दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥ १०.११४.१
BRAHMAMUNI
इस सूक्त में विद्वानों के लक्षण व्यवहार तथा वेदज्ञान के लाभ उसके अध्ययन के प्रकार प्रचार कहे हैं, परमात्मा का संसार के ऊपर अधिष्ठाता होना कहा है।
HARISHARAN SIDDHANTALANKAR
त्रिवृत् जीवन
BRAHMAMUNI
अत्र सूक्ते विदुषां लक्षणव्यवहारौ तथा वेदज्ञानस्य लाभास्तदध्ययनप्रकाराः प्रचाराश्च वर्ण्यन्ते परमात्मनः सर्वसंसारस्योपरि खल्वधिष्ठानत्वं चोच्यते।
