विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् । सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य १॒॑ मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
viśvān devām̐ ā vaha somapītaye ntarikṣād uṣas tvam | sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṁ suvīryam ||
विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑पीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् । सा । अ॒स्मासु॑ । घाः॒ । गोम॑त् । अश्व॑वत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒वीर्य॑म्॥
SWAMI DAYANAND SARSWATI
फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
दिव्य गुण व सौम्य भोजन
SWAMI DAYANAND SARSWATI
(विश्वान्) अखिलान् (देवान्) दिव्यगुणयुक्तान् पदार्थान् (आ) समन्तात् (वह) प्राप्नुहि (सोमपीतये) सोमानां पीतिः पानं यस्मिन् व्यवहारे तस्मै (अन्तरिक्षात्) उपरिष्टात् (उषः) उषर्वदनुत्तमगुणे (त्वम्) (सा) (अस्मासु) मनुष्येषु (धाः) धेहि। अत्र लडर्थे लुङडभावश्च। (गोमत्) प्रशस्ता गाव इन्द्रियाणि किरणाः पृथिव्यादयी वा विद्यन्ते यस्मिँस्तत् (अश्वावत्) बहवः प्रशस्ता वेगप्रदा अश्वा अग्न्यादयः सन्ति यस्मिँस्तत्। अत्र मन्त्रे सोमाश्वेन्द्रिय०। अ० ६।३।१३१। इति दीर्घः। (उक्थ्यम्) उच्यते प्रशस्यते यत्तस्मै हितम् (उषः) उषर्वद्धितसंपादिके (वाजम्) विज्ञानमन्नं वा (सुवीर्य्यम्) शोभनानि वीर्य्याणि पराक्रमा यस्मात्तत् ॥१२॥
पुनः सा किं कुर्यादित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What should she (Usha) do is further taught in the 12th Mantra.
O noble woman charming like the Dawn, as I get from the firmament all divine objects, pure air etc. for drinking the essence of herbs, you should also get them and bear all divine virtues in your heart. O lady, fulfiller of all desires benevolent like the Dawn, bestow upon us excellent and invigorating food and knowledge, along with noble speech and strength, the cattle and the horses and fire etc.
MATA SAVITA JOSHI
N/A
