त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒माहू॑यते ह॒विः । स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्त्सु॒वीर्या॑ ॥
tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ | sa tvaṁ no adya sumanā utāparaṁ yakṣi devān suvīryā ||
त्वे । इत् । अ॒ग्ने॒ । सु॒भगे॑ । य॒वि॒ष्ठ्य॒ । विश्व॑म् । आ । हू॒य॒ते॒ । ह॒विः । सः । त्वम् । नः॒ । अ॒द्य । सु॒मनाः॑ । उ॒त । अ॒प॒रम् । यक्षि॑ । दे॒वान् । सु॒वीर्या॑॥
SWAMI DAYANAND SARSWATI
अब अग्नि के दृष्टान्त में राजपुरुषों के गुणों का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
सुभग - यविष्ठ्य
SWAMI DAYANAND SARSWATI
(त्वे) त्वयि (इत्) एव (अग्ने) सुखप्रदातः सभेश (सुभगे) शोभनमैश्वर्यं यस्मिँस्तस्मिन् (यविष्ठ्य) यो वेगेन पदार्थान् यौति संयुनक्ति संहतान् भिनत्ति वा स युवातिशयेन युवा यविष्ठो यविष्ठ एव यविष्ठ्यस्तत्सम्बुद्धौ (विश्वम्) सर्वम् (आ) समन्तात् (हूयते) दीयते (हविः) सुसंस्कृतं वस्तु (सः) त्वम् (नः) अस्मान् (अद्य) अस्मिन्नहनि (सुमनाः) शोभनं मनो विज्ञानं यस्य सः (उत) अपि (अपरम्) श्वोदिनं प्रति (यक्षि) संगमय। अत्र लडर्थे# लङडभावश्च। (देवान्) विदुषः (सुवीर्या) शोभनानि वीर्याणि येषां तान्। अत्र सुपां सुलुग् इत्याकारादेशः ॥६॥ #[लोडर्थे,। सं०]
अथाग्निदृष्टान्तेन राजपुरुषगुणा उपदिश्यन्ते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
Now by the illustration of fire, the attributes of the officers of the State are taught.
O President of the Assembly, giver of happiness, O most youthful and auspicious, as all oblations are put in sacrificial fire, we have put all right of dispensing justice in you who are external as well endowed with good wealth of all kinds internal in the form of wisdom. Be ever cheerful, having always noble thoughts in your mind and unite us today tomorrow and for ever with energetic enlightened persons.
MATA SAVITA JOSHI
N/A
