घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् । यो मर्त्यः॒ शिशी॑ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी॑शत ॥
ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk | yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata ||
घ॒नाइ॑व । विष्व॑क् । वि । ज॒हि॒ । अरा॑व्णः । तपुः॑जम्भ । यः । अ॒स्म॒ध्रुक् । यः । मर्त्यः॑ । शिशी॑ते । अति॑ । अ॒क्तुभिः॑ । मा । नः॒ । सः । रि॒पुः । ई॒श॒त॒॥
SWAMI DAYANAND SARSWATI
फिर भी अगले मंत्र में उसी सभाध्यक्ष का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
'अरावा - द्रोही व चोर' का नाश
SWAMI DAYANAND SARSWATI
(घनेव) घनाभिर्यष्टिभिर्यथा घटं भिनत्ति तथा (विष्वक्) सर्वतः (वि) विगतार्थे (जहि) नाशय (अराव्णः) उक्तशत्रून् (तपुर्जम्भ) तप संताप इत्यस्मादौणादिक उसिन् प्रत्ययः सन्ताप्यन्ते शत्रवो यैस्तानि तपूंषि। जभि नाशन इत्यस्मात् करणे घञ् जभ्यन्त एभिरिति जम्भान्यायुधानि तपूंष्येव जम्भानि यस्य भवतस्तत्संबुद्धौ (यः) मनुष्यः (अस्मद्ध्रुक्) अस्मान् द्रुह्यति यः सः (यः) (मर्त्त्यः) मनुष्यः (शिशीते) कृशं करोति। शो तनूकरण इत्यस्माल्लटि विकरणव्यत्ययेन श्यनः स्थाने श्लुरात्मनेपदं बहुलं छन्दसि इत्यभ्यासस्येत्वम्। ईहल्यधोः अ० ६।४।११३। इत्यनभ्यासस्येकारादेशश्च। (अति) अतिशये (अक्तुभिः) अञ्जंति मृत्युं नयन्ति यैस्तैः शस्त्रैः। अंजू धातोर्बाहुलकादौणादिकस्तुः प्रत्ययः (मा) निषेधार्थे (नः) अस्मान् (सः) (रिपुः) शत्रुः (ईशत) ईष्टां समर्थो भवतु। अत्र लोडर्थे लङ्, बहुलं छन्दसि इति शपो लुक् ॥१६॥
पुनस्तदेवाह।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject is continued.
O Commander of the army, possessing powerful destructive weapons, smite down the wicked miserly persons right and left (as potter's ware) with club, Let not the man who plots against us in the night or is inimical to us, nor any foe prevail over us.
MATA SAVITA JOSHI
N/A
