स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥
samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam | trir vājavatīr iṣo aśvinā yuvaṁ doṣā asmabhyam uṣasaś ca pinvatam ||
स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒गो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् । त्रिः । वाज॑वतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म्॥
SWAMI DAYANAND SARSWATI
फिर उनसे सिद्ध किये हुए यानों से क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
माधुर्य - सेचन
SWAMI DAYANAND SARSWATI
(समाने) एकस्मिन् (अहन्) अहनि दिने (त्रिः) (त्रिवारम्) (अवद्यगोहना) अवद्यानि गर्ह्याणि निंदितानि दुःखानि गूहत आच्छादयतो दूरीकुरुतस्तौ। अवद्यपण्य० ३।१।१०१। इत्ययं निंदार्थे निपातः। ण्यन्ताद्गुहूसंवरण इत्यस्माद्धातोः। ण्यासश्रन्थो युच् अ० ३।३।१०७। इति युच्। ऊदुपधाया गोहः। अ० ६।४।८९। इत्यूदादेशे प्राप्ते। वा च्छन्दसि सर्वे विधयो भवन्ती इत्यस्य निषेधः। सुपां सुलुग् इत्याकारदेशश्च। (त्रिः) त्रिवारम् (अद्य) अस्मिन्नहनि (यज्ञम्) ग्राह्यशिल्पादिसिद्धिकरम् (मधुना) जलेन। मध्वित्युदकनामसु पठितम्। निघं० १।१२। (मिमिक्षतम्) मेदुमिच्छतम् (त्रिः) त्रिवारम् वाजवतीः प्रशस्ता वाजा वेगादयो गुणा विद्यन्ते यासु नौकादिषु ताः। अत्र प्रशंसार्थे मतुप्। (इषः) या इष्यन्ते ता इष्टसुखसाधिकाः (अश्विना) वन्हिजलवद्यानसिद्धिं संपाद्य प्रेरकचालकावध्वर्यू। अश्विनावध्वर्यू। श० १।१।२।१७। (युवम्) युवाम्। प्रथमायाश्च द्विवचने भाषायाम्। अ० ७।२।८८। इत्याकारादेशनिषेधः। (दोषाः) रात्रिषु। अत्र सुपां सुलुग् इति सुब्व्यत्ययः। दोषेति रात्रिनामसु पठितम्। निघं० १।७। अस्मभ्यम् शिल्पक्रियाकारिभ्यः (उषसः) प्रापितप्रकाशेषु दिवसेषु। अत्रापि सुब्व्यत्ययः। उष इति पदनामसु पठितम्। निघं० ५।५। (च) समुच्चये (पिन्वतम्) प्रीत्या सेवेथाम् ॥३॥
पुनस्ताभ्यां कृतैर्यानैः किं किं साधनीयमित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What all should be accomplished with these conveyances made by expert artisans is taught in the next Mantra.
O expert artisans, the manufacturers and conductors of the conveyances like the fire and water, you who are dispellers of all evils and miseries thrice every day, sprinkle thrice the Yajna (in the form of an industrial enterprise or undertaking beneficial to all) with water and other necessaries. Provide us thrice with suitable vehicles in day time and at night and provide us with speedy boats and steamers which give us desirable happiness.
MATA SAVITA JOSHI
N/A
