वांछित मन्त्र चुनें

स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥

अंग्रेज़ी लिप्यंतरण

samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam | trir vājavatīr iṣo aśvinā yuvaṁ doṣā asmabhyam uṣasaś ca pinvatam ||

मन्त्र उच्चारण
पद पाठ

स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒गो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् । त्रिः । वाज॑वतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म्॥

ऋग्वेद » मण्डल:1» सूक्त:34» मन्त्र:3 | अष्टक:1» अध्याय:3» वर्ग:4» मन्त्र:3 | मण्डल:1» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उनसे सिद्ध किये हुए यानों से क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।

पदार्थान्वयभाषाः - हे (अश्विना) अग्नि जल के समान यानों को सिद्ध करके प्रेरणा करने और चलाने तथा (अवद्यगोहना) निंदित दुष्ट कर्मों को दूर करनेवाले विद्वान् मनुष्यो ! (युवम्) तुम दोनों (समाने) एक (अहन्) दिन में (मधुना) जल से (यज्ञम्) ग्रहण करने योग्य शिल्पादि विद्या सिद्धि करनेवाले यज्ञ को (त्रिः) तीन बार (मिमिक्षितम्) सींचने की इच्छा करो और (अद्य) आज (अस्मभ्यम्) शिल्पक्रियाओं को सिद्ध करने करानेवाले हम लोगों के लिये (दोषाः) रात्रियों और (उषसः) प्रकाश को प्राप्त हुए दिनों में (त्रिः) तीन बार यानों का (पिन्वतम्) सेवन करो और (वाजवतीः) उत्तम-२ सुखदायक (इषः) इच्छा सिद्धि करनेवाले नौकादि यानों को (त्रिः) तीन बार (पिन्वतम्) प्रीति से सेवन करो ॥३॥
भावार्थभाषाः - शिल्पविद्या को जानने और कलायंत्रों से यान को चलानेवाले प्रति दिन शिल्पविद्या से यानों को सिद्ध कर तीन प्रकार अर्थात् शारीरिक आत्मिक और मानसिक सुख के लिये धन आदि अनेक उत्तम-२ पदार्थों को इकट्ठा कर सब प्राणियों को सुखयुक्त करें जिससे दिन-रात में सब लोग अपने पुरुषार्थ से इस विद्या की उन्नति कर और आलस्य को छोड़के उत्साह से उसकी रक्षा में निरन्तर प्रयत्न करें ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(समाने) एकस्मिन् (अहन्) अहनि दिने (त्रिः) (त्रिवारम्) (अवद्यगोहना) अवद्यानि गर्ह्याणि निंदितानि दुःखानि गूहत आच्छादयतो दूरीकुरुतस्तौ। अवद्यपण्य० ३।१।१०१। इत्ययं निंदार्थे निपातः। ण्यन्ताद्गुहूसंवरण इत्यस्माद्धातोः। ण्यासश्रन्थो युच् अ० ३।३।१०७। इति युच्। ऊदुपधाया गोहः। अ० ६।४।८९। इत्यूदादेशे प्राप्ते। वा च्छन्दसि सर्वे विधयो भवन्ती इत्यस्य निषेधः। सुपां सुलुग् इत्याकारदेशश्च। (त्रिः) त्रिवारम् (अद्य) अस्मिन्नहनि (यज्ञम्) ग्राह्यशिल्पादिसिद्धिकरम् (मधुना) जलेन। मध्वित्युदकनामसु पठितम्। निघं० १।१२। (मिमिक्षतम्) मेदुमिच्छतम् (त्रिः) त्रिवारम् वाजवतीः प्रशस्ता वाजा वेगादयो गुणा विद्यन्ते यासु नौकादिषु ताः। अत्र प्रशंसार्थे मतुप्। (इषः) या इष्यन्ते ता इष्टसुखसाधिकाः (अश्विना) वन्हिजलवद्यानसिद्धिं संपाद्य प्रेरकचालकावध्वर्यू। अश्विनावध्वर्यू। श० १।१।२।१७। (युवम्) युवाम्। प्रथमायाश्च द्विवचने भाषायाम्। अ० ७।२।८८। इत्याकारादेशनिषेधः। (दोषाः) रात्रिषु। अत्र सुपां सुलुग् इति सुब्व्यत्ययः। दोषेति रात्रिनामसु पठितम्। निघं० १।७। अस्मभ्यम् शिल्पक्रियाकारिभ्यः (उषसः) प्रापितप्रकाशेषु दिवसेषु। अत्रापि सुब्व्यत्ययः। उष इति पदनामसु पठितम्। निघं० ५।५। (च) समुच्चये (पिन्वतम्) प्रीत्या सेवेथाम् ॥३॥

अन्वय:

पुनस्ताभ्यां कृतैर्यानैः किं किं साधनीयमित्युपदिश्यते।

पदार्थान्वयभाषाः - हे अश्विनावद्यगोहनाध्वर्यू युवं युवां समानेऽहनि मधुना यज्ञं त्रिर्मिमिक्षतमद्यास्मभ्यं दोषा उषसः त्रिर्यानानि पिन्वतं वाजवतीरिषश्च त्रिः पिन्वतम् ॥३॥
भावार्थभाषाः - शिल्पविद्याविद्विद्वांसो यंत्रैर्यानं चालयिंताश्च प्रतिदिनं शिल्पविद्यया यानानि निष्पाद्य त्रिधा शरीरात्ममनः सुखाय धनाद्यनेकोत्तमान् पदार्थानर्जयित्वा सर्वान् प्राणिनः सुखयन्तु। येनाहोरात्रे सर्वे पुरुषार्थेनेमां विद्यामुन्नीयालस्यं त्यक्तोत्साहेन तद्रक्षणे नित्यं प्रयतेरन्निति ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - शिल्पविद्या जाणणारा व कलायंत्राने यान चालविणारा या दोघांनी प्रत्येक दिवशी शिल्पविद्येने यानांना सिद्ध करून तीन प्रकारे शारीरिक, आत्मिक व मानसिक सुखासाठी धन इत्यादी अनेक उत्तम पदार्थांना एकत्र करावे व सर्व प्राण्यांना सुखयुक्त करावे, ज्यामुळे दिवसा व रात्री सर्व लोकांनी आळस सोडून आपल्या पुरुषार्थाने या विद्येची वाढ करून उत्साहाने तिच्या रक्षणासाठी सतत प्रयत्न करावा. ॥ ३ ॥