Go To Mantra
Viewed 73 times

उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑। पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥

Mantra Audio
Pad Path

उत् । हर्षन्ताम् । मघऽवन् । वाजिनानि । उत् । वीराणाम् । जयताम् । एतु । घोष: ।पृथक् ।घोषा: । उलुलय: । केतुऽमन्त: । उत् । ईरताम् । देवा: । इन्द्रऽज्येष्ठा: । मरुत: । यन्तु । सेनया ॥१९.६॥

Atharvaveda » Kand:3» Sukta:19» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

युद्धविद्या का उपदेश।

Word-Meaning: - (मघवन्) हे बड़े धनी राजन् ! (वाजिनानि) सेना दल (उत् हर्षन्ताम्) मन को ऊँचा उठावें और (जयताम्) जीतते हुए (वीराणाम्) वीरों का (घोषः) जयजयकार वा सिंहनाद (उत् एतु) ऊँचा उठे। (उलुलयः) जलानेवालों के जलानेवाले, (केतुमन्तः) ऊँचे झण्डावाले (घोषाः) जयजयकार शब्द (पृथक्) नाना रूप में (उत् ईरताम्) ऊपर चढ़ें। (इन्द्रज्येष्ठाः) इन्द्र प्रतापी पुरुष को ज्येष्ठ वा स्वामी रखनेवाले (मरुतः) शूर (देवाः) जय चाहनेवाले देवता लोग (सेनया) सेना के साथ (यन्तु) चलें ॥६॥
Connotation: - समस्त सेनादल बड़ी उमंग से व्यूह बनाकर नानारूप में मारू बाजे गाजे के साथजय जय करते हुए आगे बढ़ें और सब दलपति लोग प्रधान सेनापति की आज्ञानुसार अपनी-२ टुकरी लेकर धावा करें ॥६॥ यह मन्त्र कुछ भेद से ऋग्वेद १०।१०३।१० और यजुर्वेद १७।४२ में है ॥
Footnote: ६−(उत् हर्षन्ताम्) उत्कर्षेण हर्षयुक्तानि भवन्तु। (मघवन्) म० ३। हे बहुधनवन्। (वाजिनानि) महेरिनण् च। उ० २।५६। इति वज गतौ-इनण्। बलानि हस्त्यश्वरथादीनि। वाजः=बलम्। निघ० २।९। (वीराणाम्) शूराणाम्। (जयताम्) जि-शतृ। जयं प्राप्नुवताम्। (उत् एतु) उद्गच्छतु। (घोषः) जयजयकारः। सिंहनादः। (पृथक्) नानारूपे (उलुलयः) उल्+उलयः। उल दाहे-क्विप्। इगुपधात् कित्। उ० ४।१२०। इति उल दाहे-इन्, स च कित्। इति उलुलिः। उलां दाहकानाम् उलयो दाहकाः शत्रुनाशकाः। (केतुमन्तः) पताकायुक्ताः। (उत् ईरताम्) ईर गतौ, अदादिः, उद्गच्छन्तु। (देवाः) विजिगीषवः। (इन्द्रज्येष्ठाः) इन्द्रः, ऐश्वर्यवान् पुरुषो ज्येष्ठः श्रेष्ठो वृद्धो वा स्वामी येषां ते तथाविधाः। (मरुतः) अ० १।२०।१। मारयन्ति दुष्टान्। शूरा देवाः। (यन्तु) गच्छन्तु। (सेनया) स्वस्वसेनया सार्धम् ॥