उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑। पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
उत् । हर्षन्ताम् । मघऽवन् । वाजिनानि । उत् । वीराणाम् । जयताम् । एतु । घोष: ।पृथक् ।घोषा: । उलुलय: । केतुऽमन्त: । उत् । ईरताम् । देवा: । इन्द्रऽज्येष्ठा: । मरुत: । यन्तु । सेनया ॥१९.६॥
पण्डित क्षेमकरणदास त्रिवेदी
युद्धविद्या का उपदेश।
