Go To Mantra

सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म्। सा मे॒ द्रवि॑णं यच्छतु॒ सा मे॑ ब्राह्मणवर्च॒सम् ॥

Mantra Audio
Pad Path

सूर्यस्य । आऽवृतम् । अनुऽआवर्ते । दक्षिणाम् । अनु । आऽवृतम् । सा । मे । दविणम् । यच्छतु । सा । मे । ब्राह्मणऽवर्चसम् ॥५.३७॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:37


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (सूर्यस्य) सूर्य की (आवृतम्) परिपाटी [रीति पर] (अन्वावर्ते) मैं चला चलता हूँ, [उसकी] (दक्षिणाम्) वृद्धियुक्त (आवृतम् अनु) परिपाटी पर। (सा) वह [परिपाटी] (मे) मुझे (द्रविणम्) बल और (सा) वह (मे) मुझे (ब्राह्मणवर्चसम्) ब्राह्मण [ब्रह्मज्ञानी] का प्रताप (यच्छतु) देवे ॥३७॥
Connotation: - मनुष्य सूर्य के समान ईश्वरकृत नियम पर चलकर बल और ब्रह्मविद्या प्राप्त करे ॥३७॥
Footnote: ३७−(सूर्यस्य) (आवृतम्) वृञ् वरणे-क्विप्, तुक्। परिपाटीम्। रीतिम् (अन्वावर्ते) निरन्तरं गच्छामि (दक्षिणाम्) दक्ष वृद्धौ शैघ्र्ये च-इनन्, टाप्। प्रवृद्धाम् (अनु) क्रियायोगे। अन्वावर्ते (आवृतम्) (सा) आवृत् (मे) मह्यम् (द्रविणम्) बलम्-निग० २।९। (यच्छतु) दाण् दाने। ददातु (सा) (मे) (ब्राह्मणवर्चसम्) ब्रह्महस्तिभ्यां वर्चसः। पा० ५।४।७८। अच् बाहुलकात्। ब्राह्मणस्य ब्रह्मज्ञानिनः पुरुषस्य प्रतापम् ॥