Viewed 135 times
यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥
Pad Path
यथा । वात: । च्यवयति । भूम्या: । रेणुम् । अन्तरिक्षात् । च । अभ्रम् । एव । मत् । सर्वम् । दु:ऽभूतम् । ब्रह्मऽनुत्तम् । अप । अयति ॥१.१३॥
Atharvaveda » Kand:10» Sukta:1» Paryayah:0» Mantra:13
PANDIT KSHEMKARANDAS TRIVEDI
राजा के कर्तव्य दण्ड का उपदेश।
Word-Meaning: - (यथा) जैसे (वातः) वायु (भूम्याः) भूमि से (रेणुम्) रेणु [धूलि] को (च) और (अन्तरिक्षात्) आकाश से (अभ्रम्) मेघ को (च्यावयति) सरका देता है। (एव) वैसे ही (मत्) मुझ से (सर्वम्) सब (ब्रह्मनुत्तम्) ब्राह्मणों द्वारा हटाया गया (दुर्भूतम्) पाप (अप अयति) दूर चला जावे ॥१३॥
Connotation: - मनुष्य सदुपदेश पाकर पाप कर्म छोड़ने में शीघ्रता करे ॥१३॥
Footnote: १३−(यथा) येन प्रकारेण (वातः) वायुः (च्यावयति) अपगमयति (भूम्याः) (रेणुम्) अजिवृरीभ्यो निच्च। उ० ३।३८। री गतिरेषणयोः−नु। धूलिम् (अन्तरिक्षात्) आकाशात् (च) (अभ्रम्) मेघम् (एव) एवम् (मत्) मत्तः (सर्वम्) (दुर्भूतम्) पापम्। दुःखम् (ब्रह्मनुत्तम्) ब्रह्मभिर्वेदविद्भिः प्रेरितम् (अप अयति) नश्यतु ॥
