वांछित मन्त्र चुनें

यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥

मन्त्र उच्चारण
पद पाठ

यथा । वात: । च्यवयति । भूम्या: । रेणुम् । अन्तरिक्षात् । च । अभ्रम् । एव । मत् । सर्वम् । दु:ऽभूतम् । ब्रह्मऽनुत्तम् । अप । अयति ॥१.१३॥

अथर्ववेद » काण्ड:10» सूक्त:1» पर्यायः:0» मन्त्र:13


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के कर्तव्य दण्ड का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसे (वातः) वायु (भूम्याः) भूमि से (रेणुम्) रेणु [धूलि] को (च) और (अन्तरिक्षात्) आकाश से (अभ्रम्) मेघ को (च्यावयति) सरका देता है। (एव) वैसे ही (मत्) मुझ से (सर्वम्) सब (ब्रह्मनुत्तम्) ब्राह्मणों द्वारा हटाया गया (दुर्भूतम्) पाप (अप अयति) दूर चला जावे ॥१३॥
भावार्थभाषाः - मनुष्य सदुपदेश पाकर पाप कर्म छोड़ने में शीघ्रता करे ॥१३॥
टिप्पणी: १३−(यथा) येन प्रकारेण (वातः) वायुः (च्यावयति) अपगमयति (भूम्याः) (रेणुम्) अजिवृरीभ्यो निच्च। उ० ३।३८। री गतिरेषणयोः−नु। धूलिम् (अन्तरिक्षात्) आकाशात् (च) (अभ्रम्) मेघम् (एव) एवम् (मत्) मत्तः (सर्वम्) (दुर्भूतम्) पापम्। दुःखम् (ब्रह्मनुत्तम्) ब्रह्मभिर्वेदविद्भिः प्रेरितम् (अप अयति) नश्यतु ॥