मा त्वा॑दभन्त्सलि॒ले अ॒प्स्वन्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑। हि॒त्वाश॑स्तिं॒दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
मा । त्वा । दभन् । सलिले। अप्ऽसु । अन्त: । ये । पाशिन: । उपऽतिष्ठन्ति । अत्र । हित्वा । अशस्तिम् । दिवम् । आ । अरुक्ष: । एताम् । स: । न: । मृड ।सुऽमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.८॥
पण्डित क्षेमकरणदास त्रिवेदी
आयु की बढ़ती के लिये उपदेश।