Go To Mantra

मा त्वा॑दभन्त्सलि॒ले अ॒प्स्वन्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑। हि॒त्वाश॑स्तिं॒दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

Mantra Audio
Pad Path

मा । त्वा । दभन् । सलिले। अप्ऽसु । अन्त: । ये । पाशिन: । उपऽतिष्ठन्ति । अत्र । हित्वा । अशस्तिम् । दिवम् । आ । अरुक्ष: । एताम् । स: । न: । मृड ।सुऽमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.८॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:8


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - [हे परमेश्वर !] (त्वा) तुझे उन [विघ्नों ने] (मा दभन्) नहीं रोका है, (ये) जो (पाशिनः)बन्धनवाले [विघ्न] (सलिले) अन्तरिक्ष में (अप्सु अन्तः) तन्मात्राओं के भीतर (अत्र) यहाँ [संसार में] (उपतिष्ठन्ति) उपस्थित हैं। (एताम्) इस (अशस्तिम्)अपकीर्ति को (हित्वा) छोड़कर (दिवम्) व्यवहार में (आ अरुक्षः) तू ऊँचा हुआ है, (सः) सो तू (नः) हमें (मृड) सुखी रख, (ते) तेरी (सुमतौ) सुमति [सुन्दर आज्ञा]में (स्याम) हम होवें, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्)तेरे ही... [मन्त्र ६] ॥८॥
Connotation: - परमात्मा ने सबविघ्नों को हटाकर तत्त्वों के परमाणुओं से सूर्य तृण आदि बड़े छोटे पदार्थों कोरचकर परस्पर आकर्षण में ठहराया है, तुम सब उस परमात्मा की उपासना करकेतत्त्वज्ञान से उन्नति करते जाओ ॥८॥
Footnote: ८−(त्वा) त्वाम् (आ दभन्) दम्भु हिंसायांमाङि लुङि रूपम्। न हिंसितवन्तस्ते विघ्नाः (सलिले) अन्तरिक्षे (अप्सु) आपोव्यापिकास्तन्मात्राः-दयानन्दभाष्ये-यजु० २७।२५। व्यापिकासु तन्मात्रासु (अन्तः)मध्ये (ये) विघ्नाः (पाशिनः) बन्धनवन्तः (उपतिष्ठन्ति) उपस्थिता भवन्ति (अत्र)संसारे (हित्वा) त्यक्त्वा (अशस्तिम्) अपकीर्तिम् (दिवम्) व्यवहारम् (आ अरुक्षः)आरूढवानसि (एताम्) पूर्वोक्ताम् (सः) स त्वम् (नः) अस्मान् (मृड) सुखय (सुमतौ)अनुग्रहबुद्धौ (ते) तव (स्याम) भवेम। अन्यत् पूर्ववत् ॥