त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् । अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥
tvām mṛjanti daśa yoṣaṇaḥ sutaṁ soma ṛṣibhir matibhir dhītibhir hitam | avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye ||
त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सो॒म॒ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् । अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥ ९.६८.७
आर्यमुनि
अब प्रसङ्गसङ्गति से परमात्मा की प्राप्ति का वर्णन करते हैं।
आर्यमुनि
अथ प्रसङ्गसङ्गत्या परमात्मप्राप्तिर्वर्ण्यते।