Go To Mantra

त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् । अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥

English Transliteration

tvām mṛjanti daśa yoṣaṇaḥ sutaṁ soma ṛṣibhir matibhir dhītibhir hitam | avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye ||

Pad Path

त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सो॒म॒ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् । अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥ ९.६८.७

Rigveda » Mandal:9» Sukta:68» Mantra:7 | Ashtak:7» Adhyay:2» Varga:20» Mantra:2 | Mandal:9» Anuvak:4» Mantra:7


Reads times

ARYAMUNI

अब प्रसङ्गसङ्गति से परमात्मा की प्राप्ति का वर्णन करते हैं।

Word-Meaning: - हे परमात्मन् ! (सुतं) स्वयंसिद्ध (त्वां) तुमको (दश योषणः) धृत्यादि धर्म के दस साधन (मृजन्ति) साक्षात्कार करते हैं। (सोम) हे परमात्मन् ! तुम (मतिभिः) ज्ञानयोगी तथा (धीतिभिः) कर्मयोगी (ऋषिभिः) ऋषियों से (हितं) साक्षात्कार किये जाते हो तथा तुम (अव्यः) सर्वरक्षक हो। (उत) और (वारेभिः देवहूतिभिः नृभिः) सर्वोपरि वरणीय योगी मनुष्यों द्वारा (सातये) अज्ञाननिवृत्ति के लिए (वाजं) बल को (यतः) जिस हेतु (आदर्षि) देते हो, अतः तुम सर्वोपरि उपासनीय हो ॥७॥
Connotation: - परमात्मा ज्ञानयोगी तथा कर्मयोगियों को अनन्त बल देता है, इसलिए मनुष्य को ज्ञानयोगी तथा कर्मयोगी अवश्य बनना चाहिए ॥७॥
Reads times

ARYAMUNI

अथ प्रसङ्गसङ्गत्या परमात्मप्राप्तिर्वर्ण्यते।

Word-Meaning: - हे परमात्मन् ! (सुतम्) स्वयंसिद्धं (त्वाम्) भवन्तं (दश योषणः) दश धृत्यादिधर्मसाधनानि (मृजन्ति) साक्षात्कुर्वन्ति। (सोम) हे जगदीश ! (त्वं (मतिभिः) ज्ञानयोगिभिस्तथा (धीतिभिः) कर्मयोगिभिः (ऋषिभिः) तत्त्वदर्शिभिः (हितम्) साक्षात्कृतोऽसि। तथा त्वं (अव्यः) सर्वरक्षकोऽसि। (उत) अथ च (वारेभिर्देवहूतिभिर्नृभिः) वरणीयज्ञानयोगिकर्मयोगिमनुष्यद्वारा (सातये) अज्ञाननिवृत्तये (वाजम्) बलं (यतः) यस्मात् कारणात् (आदर्षि) ददास्यतः सर्वोपासनीयोऽसि ॥७॥