व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑। प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥८॥
vayaṁ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ | prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṁ sanaye dhanānām ||
व॒यम्। ते॒। अ॒स्याम्। इ॒न्द्र॒। द्यु॒म्नऽहू॑तौ। सखा॑यः। स्या॒म॒। म॒हि॒न॒। प्रेष्ठाः॑। प्रात॑र्दनिः। क्ष॒त्र॒ऽश्रीः। अ॒स्तु॒। श्रेष्ठः॑। घ॒ने। वृ॒त्राणा॑म्। स॒नये॑। धना॑नाम् ॥८॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे महिनेन्द्र ! वयं तेऽस्यां द्युम्नहूतौ प्रेष्ठाः सखायः स्याम। भवान् प्रातर्दनिर्वृत्राणां घने धनानां सनये श्रेष्ठः क्षत्रश्रीरस्तु ॥८॥