तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः। शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥७॥
tad in nu te karaṇaṁ dasma viprāhiṁ yad ghnann ojo atrāmimīthāḥ | śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṁ yann apa dasyūm̐r asedhaḥ ||
तत्। इत्। नु। ते॒। कर॑णम्। द॒स्म॒। वि॒प्र॒। अहि॑म्। यत्। घ्नन्। ओजः॑। अत्र॑। अमि॑मीथाः। शुष्ण॑स्य। चि॒त्। परि॑। मा॒याः। अ॒गृ॒भ्णाः॒। प्र॒ऽपि॒त्वम्। यन्। अप॑। दस्यू॑न्। अ॒से॒धः॒ ॥७॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे दस्म विप्र ! भवान् सूर्योऽहिं हन्ति अत्रौजो यन्निपातयति तत्करणं यथा तथा शत्रुबलं घ्नन्नत्र त्वं शुष्णस्य वृद्धिममिमीथाश्चिदपि मायाः पर्यगृभ्णाः प्रपित्वं यन् दस्यूनपासेधस्तस्मै ते तुभ्यं न्वित् सुखं प्राप्नुयात् ॥७॥