अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥
ayam u ṣya pra devayur hotā yajñāya nīyate | ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā ||
अ॒यम् । ऊँ॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ । रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥ १०.१७६.३
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
'देवयु होता' को प्रभु की प्राप्ति
