अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ॥
apa prāca indra viśvām̐ amitrān apāpāco abhibhūte nudasva | apodīco apa śūrādharāca urau yathā tava śarman madema ||
अप॑ । प्राचः॑ । इ॒न्द्र॒ । विश्वा॑न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः । अ॒भि॒ऽभू॒ते॒ । नु॒द॒स्व॒ । अप॑ । उदी॑चः । अप॑ । शू॒र॒ । अ॒ध॒राचः॑ । उ॒रौ । यथा॑ । तव॑ । शर्म॑न् । मदे॑म ॥ १०.१३१.१
ब्रह्ममुनि
इस सूक्त में परमात्मा की उपासना करना तथा संयम से रहना सुख का मूल है, राजा प्रजा का पालन करने का ध्यान रखे इत्यादि विषय हैं।
ब्रह्ममुनि
अत्र सूक्ते गृहस्थाश्रमे परमात्मोपासना कार्या संयमेन गृहस्थचर्या कार्येति सुखस्य मूलं ज्ञेयम्, राजा च प्रजाः पालयेत् सम्यग्ध्यानेनेत्येवमादयो विषयाः सन्ति।