प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे। ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥
praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe | te krīḻayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ ||
प्र। ए॒षा॒म्। अज्मे॑षु। वि॒थु॒राऽइ॑व। रे॒ज॒ते॒। भूमिः॑। यामे॑षु। यत्। ह॒। यु॒ञ्जते॑। शु॒भे। ते। क्री॒ळयः॒। धुन॑यः। भ्राज॑त्ऽऋष्टयः। स्व॒यम्। म॒हि॒ऽत्वम्। प॒न॒य॒न्त॒। धूत॑यः ॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
स्वामी दयानन्द सरस्वती
पुनस्ते किं कुर्युरित्युपदिश्यते ॥
यद्ये क्रीडयो धुनयो भ्राजदृष्टयो धूतयो वीराः शुभेऽज्मेषु प्रयुञ्जते ते महित्वं यथा स्यात्तथा स्वयं ह पनयन्त। एषां यामेषु गच्छद्भिर्यानादिर्भिूमिर्विथुरेव रेजते ॥ ३ ॥