ए॒वाग्निर्गोत॑मेभिर्ऋ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः। स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥
evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ | sa eṣu dyumnam pīpayat sa vājaṁ sa puṣṭiṁ yāti joṣam ā cikitvān ||
ए॒व। अ॒ग्निः। गोत॑मेभिः। ऋ॒तऽवा॑। विप्रे॑भिः। अ॒स्तो॒ष्ट॒। जा॒तऽवे॑दाः। सः। ए॒षु॒। द्यु॒म्नम्। पी॒प॒य॒त्। सः। वाज॑म्। सः। पु॒ष्टिम्। या॒ति॒। जोष॑म्। आ। चि॒कि॒त्वान् ॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे विद्वन् ! गोतमेभिर्विप्रेभिर्यो जातवेदा ऋतावा अग्निः स्तूयते यस्त्वमस्तोष्ट स एव चिकित्वान् द्युम्नं याति स वाजं पीपयत् स जोषं पुष्टिमायाति ॥ ५ ॥