हि॒र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान्। म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥
hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān | makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||
हि॒र॒ण्यये॑भिः। प॒विऽभिः॑। प॒यः॒ऽवृधः॑। उत्। जि॒घ्न॒न्ते॒। आ॒ऽप॒थ्यः॑। न। पर्व॑तान्। म॒खाः। अ॒यासः॑। स्व॒ऽसृतः॑। ध्रु॒व॒ऽच्युतः॑। दु॒ध्र॒ऽकृतः॑। म॒रुतः॑। भ्राज॑त्ऽऋष्टयः ॥
स्वामी दयानन्द सरस्वती
फिर भी वे पूर्वोक्त वायु कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
स्वामी दयानन्द सरस्वती
पुनरेते वायवः कीदृशा इत्युपदिश्यते ॥
हे विद्वांसो मनुष्या ! यूयमापथ्यो न हिरण्ययेभिः पविभिः सह समन्ताद्रथेन पथि गच्छन्निव ये भ्राजदृष्टयो दुध्रकृतो ध्रुवच्युतः स्वसृतः पयोवृधो मरुतो पर्वतान् मेघान् शैलान् वोज्जिघ्नन्ते तेषां गुणान् विज्ञायैतान् कार्य्येषु नित्यं संप्रयोजयत ॥ ११ ॥