Go To Mantra
Select by Archik

य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ प्र꣢थ꣣मं꣢ पु꣣रो꣡हि꣢तम꣣ग्निं꣡ न꣢꣯रस्त्रिषध꣣स्थे꣡ समि꣢꣯न्धते । इ꣡न्द्रे꣢ण दे꣣वैः꣢ स꣣र꣢थ꣣ꣳस꣢ ब꣣र्हि꣢षि꣣ सी꣢द꣣न्नि꣡ होता꣢꣯ य꣣ज꣡था꣢य सु꣣क्र꣡तुः꣢ ॥९०९॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथꣳस बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥९०९॥

Mantra Audio
Pad Path

य꣡ज्ञ꣢स्य । के꣣तु꣢म् । प्रथ꣣म꣢म् । पु꣣रो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । अग्नि꣢म् । न꣡रः꣢꣯ । त्रि꣣षधस्थे꣢ । त्रि꣣ । सधस्थे꣢ । सम् । इ꣡न्धते । इ꣡न्द्रे꣢꣯ण । दे꣣वैः꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । सः । ब꣣र्हि꣡षि꣢ । सी꣡द꣢꣯त् । नि । हो꣡ता꣢꣯ । य꣣ज꣡था꣢य । सु꣣क्र꣡तुः꣢ । सु꣣ । क्रतुः ॥९०९॥१

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 909 | (Kauthum) 3 » 1 » 6 » 3 | (Ranayaniya) 5 » 3 » 1 » 3