यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yatrānukāmaṁ caraṇaṁ trināke tridive divaḥ | lokā yatra jyotiṣmantas tatra mām amṛtaṁ kṛdhīndrāyendo pari srava ||
यत्र॑ । अ॒नु॒ऽका॒मम् । चर॑णम् । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । दि॒वः । लो॒काः । यत्र॑ । ज्योति॑ष्मन्तः । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११३.९