Go To Mantra

बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ । सं॒रभ्या॒ धीरा॒: स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभि॑: ॥

English Transliteration

bṛhad vadanti madireṇa mandinendraṁ krośanto vidann anā madhu | saṁrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ ||

Pad Path

बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ । म॒न्दिना॑ । इन्द्र॑म् । क्रोश॑न्तः । अ॒वि॒द॒न् । अ॒ना । मधु॑ । स॒म्ऽरभ्य॑ । धीराः॑ । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः॒ । आ॒ऽघो॒षय॑न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दिऽभिः॑ ॥ १०.९४.४

Rigveda » Mandal:10» Sukta:94» Mantra:4 | Ashtak:8» Adhyay:4» Varga:29» Mantra:4 | Mandal:10» Anuvak:8» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (मधु-अविदन्) विद्वान् जन परमात्मा के आनन्द मधु को जब प्राप्त करते हैं (अना-इन्द्रं क्रोशन्तः) मुख से परमात्मा को स्तुत करते हुए (मन्दिना-मदिरेण) स्तोतव्य प्रशंसनीय आनन्द से (बृहत्-वदन्ति) बहुत गुणगान करते हैं (धीराः-संरभ्य) बुद्धिमान् ज्ञान में संलग्न हुए (उपब्दिभिः) वाणियों से (पृथिवीम्) प्रथित जनसभा को (आघोषयन्तः) भलीभाँति पूरित करते हुए (स्वसृभिः) अङ्गुलियों द्वारा-अङ्गुलियों को फ़ैलाकर-खोलकर (अनर्तिषुः) नृत्य करते हैं ॥४॥
Connotation: - विद्वान् जन परमात्मा के आनन्दमधु को प्राप्त कर उसकी स्तुति करते हैं, उसके ध्यान में रत होकर गुणगान करते हुए आनन्द से नृत्य किया करते हैं ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मधु-अविदन्) विद्वांसः परमात्मन आनन्दमधु यदा लभन्ते तदा (अना-इन्द्रं क्रोशन्तः) मुखेन परमात्मानं स्तुवन्तः शब्दयन्तः “क्रोशतेः शब्दकर्मणः” [निरु० २।२५] (मन्दिना-मदिरेण बृहद् वदन्ति) स्तुत्येन प्रशंसनीयेन “मन्दी मन्दतेः स्तुतिकर्मणः” [निरु० ४।२४] हर्षेण बहु वदन्ति (धीराः-संरभ्य) धीमन्तः ध्याने संरब्धाः संज्ञानाः सन्तः (उपब्दिभिः पृथिवीम्-आघोषयन्तः) वाग्भिः “उपब्दिः-वाङ्नाम” [निघ० १।११] पृथिवीं प्रथितां जनसभां समन्तात् पूरयन्तः (स्वसृभिः-अनर्तिषुः) अङ्गुलीभिः-अङ्गुलीः प्रसार्य “स्वसारः-अङ्गुलीनाम” [निघ० २।५] नृत्यन्ति ॥४॥