Go To Mantra

क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळय॑: । तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥

English Transliteration

krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḻayaḥ | tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ ||

Pad Path

क्रा॒णाः । रु॒द्राः । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । दि॒वः । श्ये॒नासः॑ । असु॑रस्य । नी॒ळयः॑ । तेभिः॑ । च॒ष्टे॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः॑ । दे॒वेभिः॑ । अ॒र्व॒शेभिः । अर्व॑शः ॥ १०.९२.६

Rigveda » Mandal:10» Sukta:92» Mantra:6 | Ashtak:8» Adhyay:4» Varga:24» Mantra:1 | Mandal:10» Anuvak:8» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (असुरस्य) मेघ के (नीळयः) आवास या आधार (क्राणाः) वृष्टि करनेवाले (रुद्राः) शब्द करते हुए (मरुतः) मेघ में रहनेवाले वायु (विश्वकृष्टयः) सब मनुष्यों या खेतियों के निमित्त (दिवः श्येनासः) मेघमण्डल के प्रेरक हैं (तेभिः-देवेभिः) उन देवों (अर्वशेभिः) गति शक्तिवालों के द्वारा (अर्वशः) प्रशस्त गतिमान् (वरुणः) सबका वरनेवाला (मित्रः) सबका प्रेरक (अर्यमा) सबका स्वामी (इन्द्रः) ऐश्वर्यवान् परमात्मा (चष्टे) देखता है-जानता है ॥६॥
Connotation: - मेघ के आधारभूत वृष्टि के करनेवाले शब्द करते हुए मेघ में वर्त्तमान वायु हैं, जो सब मनुष्यादि प्राणियों, सब अन्नादि खेतियों की पुष्टि के कारण हैं, मेघमण्डल से प्रेरित होते हैं, उन गतिशील वायुओं के द्वारा प्रशस्त विभु गतिमान् सबको वरनेवाला सबका प्रेरक सबका स्वामी परमात्मा सर्वद्रष्टा है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (असुरस्य) मेघस्य “असुरो मेघनाम” [निघ० १।१०३] (नीळयः) आवासा आधारभूता “नीडं गृहनाम” [निघ० ३।४] इकारश्छान्दसोऽकारस्य स्थाने (क्राणाः) वृष्टिं कुर्वाणाः “क्राणाः कुर्वाणाः” [निरु० ४।१९] (रुद्राः) शब्दयन्तः “रुद्रो रौतीति सतः” [निरु० १०।५] (मरुतः) मेघस्थवायवः (विश्वकृष्टयः) सर्वकृष्टिनिमित्ताः-सर्वमनुष्यहितकरा यद्वा सर्वकृषिनिमित्ताः (दिवः श्येनासः) मेघमण्डलस्य प्रेरकाः सन्ति (तेभिः-देवेभिः) तैर्देवैः (अर्वशेभिः) गतिशक्तिमद्भिः “अर्वा-ईरणवान्” [निरु० १०।३०] शः प्रत्ययो मत्वर्थीयः ‘अर्वशो यथा लोमशः’ (अर्वशः) प्रशस्तगतिमान् (वरुणः) सर्वेषां वरयिता (मित्रः) सर्वेषां प्रेरयिता (अर्यमा) स्वामी (इन्द्रः) ऐश्वर्यवान् परमात्मा (चष्टे) पश्यति-जानाति ॥६॥