Go To Mantra

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्तत॒: सूर्यो॑ जायते प्रा॒तरु॒द्यन् । मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥

English Transliteration

mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan | māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan ||

Pad Path

मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त॑म् । अ॒ग्निः । ततः॑ । सूर्यः॑ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्ऽयन् । मा॒याम् । ऊँ॒ इति॑ । तु । य॒ज्ञिया॑नाम् । ए॒ताम् । अपः॑ । यत् । तूर्णिः॑ । चर॑ति । प्र॒ऽजा॒नन् ॥ १०.८८.६

Rigveda » Mandal:10» Sukta:88» Mantra:6 | Ashtak:8» Adhyay:4» Varga:11» Mantra:1 | Mandal:10» Anuvak:7» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (नक्तम्) रात्रि में (अग्निः) वैश्वानर अग्नि (भुवः-मूर्धा भवति) सब भूतों का मूर्धा की भाँति ज्ञानदर्शनसूचक होता है। अग्निरूप से (ततः-प्रातः-उद्यन्-सूर्यः-जायते) पुनः वही वैश्वानर अग्नि प्रातःकाल उदय होता हुआ सूर्य नाम से प्रसिद्ध होता है (यज्ञियानाम्) यज्ञसम्पादी दिव्यपदार्थों के मध्य में तो (उ तु-एतां मायाम्) इस प्रज्ञा को ज्ञान-प्रज्ञान की सूचना को मानते हैं, जनसाधारण याज्ञिक (प्रजानन्-तूर्णिः) प्रज्ज्वलित हुआ शीघ्र (अपः-चरति) प्रकाशित कर्म को पूरा करता है ॥६॥
Connotation: - वैश्वानर अग्नि दिन-रात सब स्थानों पर कार्य करता है। भिन्न नाम रूपों से रात्रि में अग्नि बनकर, दिन में सूर्य बनकर, वेदि में यज्ञाग्नि होकर याज्ञिकों को ज्ञान का निमित्त बनता है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (नक्तम्) रात्रौ (अग्निः-भुवः-मूर्धा-भवति) वैश्वानरोऽग्निः सर्वेषां भूतानां मूर्धा-मूर्धवज्ज्ञानदर्शनसूचको भवति खल्वग्निरूपेण (ततः प्रातः-उद्यन्-सूर्यः-जायते) स एव वैश्वानरोऽग्निः प्रातः प्रकटीभवन् सूर्यनामतः प्रसिद्धो भवति (यज्ञियानाम्-उ तु-एतां मायाम्) यज्ञसम्पादिनां दिव्यपदार्थानां मध्ये तु खलु इमां प्रज्ञां प्रज्ञानसूचनां मन्यन्ते याज्ञिकाः (प्रजानन् तूर्णिः-अपः-चरति) प्रज्वलयन् प्रकाशयन् कर्म क्षिप्रं चरति-पारयति। निरुक्तानुरूपोऽर्थः ॥६॥