Go To Mantra

सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒: पर्यु॑ह्यते ॥

English Transliteration

sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat | aghāsu hanyante gāvo rjunyoḥ pary uhyate ||

Pad Path

सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥ १०.८५.१३

Rigveda » Mandal:10» Sukta:85» Mantra:13 | Ashtak:8» Adhyay:3» Varga:22» Mantra:3 | Mandal:10» Anuvak:7» Mantra:13


Reads times

BRAHMAMUNI

Word-Meaning: -
Reads times

BRAHMAMUNI

Word-Meaning: - (सूर्यायाः-वहतुः प्र-अगात्) तेजस्विन्याः नववध्वाः-निर्वाहयोग्यं बाह्यं दातव्यं गवादिधनरूपं भवति (सविता यम्-अवासृजत्) उत्पादयिता पिता यं वहतुं दातव्यं गवादिकं धनं तस्यै सङ्कल्पयति (अघासु गावः-हन्यन्ते) मघासु नक्षत्रेषु “मकारलोपश्छान्दसः” यद्वा ‘मघा’ इत्यस्य वैदिकनाम ‘अघा’ तासु नक्षत्रेषु गावो गवादयः पदार्थाः प्रेर्यन्ते “हन हिंसागत्योः” [अदादि] पश्चात् खलु मासानन्तरं (अर्जुन्योः परि-उह्यते) फल्गुन्योर्नक्षत्रयोः फाल्गुनमासे “अर्जुनी नक्षत्रे-अर्जुन्यो वै नाम फल्गुन्य इति” [श० २।१।२।११] परितो विवाहकृत्यं समाप्येत ॥१३॥