Go To Mantra

अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् । पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥

English Transliteration

aham etaṁ gavyayam aśvyam paśum purīṣiṇaṁ sāyakenā hiraṇyayam | purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ ||

Pad Path

अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अश्व्य॑म् । प॒शुम् । पु॒री॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् । पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । दा॒शुषे॑ । यत् । मा॒ । सोमा॑सः । उ॒क्थिनः॑ । अम॑न्दिषुः ॥ १०.४८.४

Rigveda » Mandal:10» Sukta:48» Mantra:4 | Ashtak:8» Adhyay:1» Varga:5» Mantra:4 | Mandal:10» Anuvak:4» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अहम्) मैं परमात्मा (एतं गव्ययम्-अश्व्यं पुरीषिणं पशुम्) इन्द्रियों में साधु, व्यापनशील मन में साधु-कुशल प्राणवान् द्रष्टा आत्मा को (सायकेन) पाप का अन्त करनेवाले (हिरण्ययम्) ज्ञानमय  तेज से (पुरुसहस्रा) अतीव सहस्रगुणित धनलाभों को (नि शिशामि) निरन्तर देता हूँ (दाशुषे) आत्मसमर्पण करनेवाले के लिए (यत्) जो (मा) मेरे प्रति (उक्थिनः सोमासः-अमन्दिषुः) स्तुतिवाणीवाले के-स्तोता के उपासनारस हर्षित करते हैं ॥४॥
Connotation: - इन्द्रियसंयमी मनोनिरोधक सावधान आत्मा के प्रति परमात्मा पापनाशक अपने तेज से सहस्रगुणित धनलाभ देता है तथा स्तुति करनेवाले उपासक के उपासनारसों से हर्षित होकर भी वह उन्हें धनलाभ देता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अहम्) अहं परमात्मा (एतं गव्ययम्-अश्व्यं पुरीषिणं पशुम्) एतं गोषु-इन्द्रियेषु साधुं तथाश्वे व्यापनशीले मनसि साधुं कुशलं पुरीषवन्तं प्राणवन्तम् “स एष प्राण एव यत्पुरीषम्” [श० ८।७।३।६] द्रष्टारमात्मानम् (सायकेन) पापस्यान्तकारकेण “स्यन्ति क्षयन्ति येन” [ऋ० १।८४।११ दयानन्दः] (हिरण्ययम्) हिरण्ययेन ज्ञानमयेन तेजसा ‘विभक्तिव्यत्ययः’ (पुरुसहस्रा) अतीव सहस्रगुणितधनलाभान् (निशिशामि) नितरां निरन्तरं वा ददामि “शिशीति दानकर्मा” [निरु० ५।२३] (दाशुषे) आत्मसमर्पणं कृतवते (यत्) यतः (मा) माम् (उक्थिनः सोमासः-अमन्दिषुः) तस्य स्तुतिवाग्वतः-उपासनारसा मोदयन्ति हर्षयन्ति ॥४॥