Go To Mantra

अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः । अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥

English Transliteration

ayaṁ gha sa turo mada indrasya vardhata priyaḥ | ayaṁ kakṣīvato maho vi vo made matiṁ viprasya vardhayad vivakṣase ||

Pad Path

अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः । अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥ १०.२५.१०

Rigveda » Mandal:10» Sukta:25» Mantra:10 | Ashtak:7» Adhyay:7» Varga:12» Mantra:5 | Mandal:10» Anuvak:2» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रस्य) आत्मा का (अयं घ सः) यह सचमुच वह (तुरः प्रियः-मदः-वर्धत) शीघ्र स्वभाववाला प्रिय हर्षदायक शान्तस्वरूप परमात्मा आत्मा के हृदय में बढ़ता है-साक्षात् होता है। (महः कक्षीवतः-विप्रस्य-अयं मतिम्-वर्धयत्) महान् तथा संयम बाँधनेवाले स्तुतिकर्ता विद्वान् की बुद्धि को बढ़ाता है। (वः-मदे वि) तेरी हर्षनिमित्त विशिष्टरूप से हम स्तुति करते हैं। (विवक्षसे) तू महान् है ॥१०॥
Connotation: - शीघ्र प्रियकारी परमात्मा उपासक के हृदय में साक्षात् होता है। वह संयमी उपासक की बुद्धि को बढ़ाता है, उत्पन्न करता है। इसलिये उसकी स्तुति करनी चाहिये ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रस्य) आत्मनः (अयं घ सः) एष खलु सः (तुरः प्रियः मदः वर्धत) त्वरणशीलः प्रियो हर्षकरः सोमः शान्तस्वरूपः परमात्मा तस्यात्मनो हृदये वर्धते-साक्षाद् भवति। (महः कक्षीवतः विप्रस्य अयं मतिम् वर्धयत्) महतः कक्ष्यावतः “कक्षीवान् कक्ष्यावान्” [निरु ६।१०] संयमकक्षागतस्य विप्रस्य स्तुतिप्रेरकस्य बुद्धिं वर्धयति। (वः-मदे वि) त्वां हर्षनिमित्तं विशिष्टतया स्तुमः (विवक्षसे) त्वं महानसि ॥१०॥