Go To Mantra

त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः । त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ॥

English Transliteration

tvām id asyā uṣaso vyuṣṭiṣu dūtaṁ kṛṇvānā ayajanta mānuṣāḥ | tvāṁ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare ||

Pad Path

त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः । त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥ १०.१२२.७

Rigveda » Mandal:10» Sukta:122» Mantra:7 | Ashtak:8» Adhyay:7» Varga:6» Mantra:2 | Mandal:10» Anuvak:10» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक परमात्मन् ! (अस्याः-उषसः) इस प्रातःकाल होनेवाली ज्योति के (व्युष्टिषु) विकासवेलाओं में (त्वाम्-इत्) तुझे ही (दूतम्) प्रेरक आगे करते हुए (मानुषाः) मननशील जन (अयजन्त) अध्यात्मयज्ञ करते हैं (देवाः) मुमुक्षुजन (महयाय्याय) महत्त्ववान् मोक्ष के लिये (त्वाम्) तुझे (ववृधुः) स्तुतियों से बढ़ाते हैं-प्रसन्न करते हैं (अध्वरे) अहिंसनीय अध्यात्मयज्ञ में (आज्यम्) चित्त को (निमृजन्तः) शोधते हुए ॥७॥
Connotation: - प्रातःकाल के उषा वेला में मनुष्य परमात्मा की स्तुतिपूर्वक यज्ञ करे तथा मुमुक्षुजन भी मोक्षार्थ, स्तुतियों द्वारा अध्यात्मयज्ञ रचावे, अपने चित्त को निर्मल निर्दोष निरुद्ध करें ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक परमात्मन् ! (अस्याः-उषसः-व्युष्टिषु) एतस्याः प्रातस्तन्याः खलु भासो विकासवेलासु (त्वाम्-इत्) त्वामेव (दूतं कृण्वानाः) प्रेरकमग्रे कुर्वाणाः (मानुषाः-अभजन्त) मननशीला जना अध्यात्मयज्ञं कुर्वन्ति (देवाः) मुमुक्षवः (महयाय्याय) महत्त्ववते मोक्षाय “मह धातोर्णिजन्तात्-आप्यः प्रत्यय औणादिकः (त्वां ववृधुः) त्वां परमात्मानं स्तुतिभिर्वर्धयन्ति-प्रसीदन्ति (अध्वरे-आज्यं निमृजन्तः) अहिंसनीयाध्यात्मयज्ञे चित्तम् “चित्तमाज्यम्” [तै० आ० ३।१।२] शोधयन्तः ॥७॥