Go To Mantra

त्वं दू॒तः प्र॑थ॒मो वरे॑ण्य॒: स हू॒यमा॑नो अ॒मृता॑य मत्स्व । त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥

English Transliteration

tvaṁ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva | tvām marjayan maruto dāśuṣo gṛhe tvāṁ stomebhir bhṛgavo vi rurucuḥ ||

Pad Path

त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ । त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रि॒रु॒चुः॒ ॥ १०.१२२.५

Rigveda » Mandal:10» Sukta:122» Mantra:5 | Ashtak:8» Adhyay:7» Varga:5» Mantra:5 | Mandal:10» Anuvak:10» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (त्वम्) हे परमात्मन् ! तू (प्रथमः) प्रमुख (वरेण्यः) वरने योग्य (दूतः) सबका प्रेरक (सः) वह तू (हूयमानः) प्रार्थना में लाया जाता हुआ (अमृताय) मोक्ष के लिये (मत्स्व) हर्षित कर (मरुतः) अध्यात्मयज्ञ के करनेवाले (भृगवः) देदीप्यमान परिपक्व ज्ञानवाले मेधावी विद्वान् (त्वां मर्जयन्) तुझे प्राप्त करते हैं (दाशुषः) अपने को समर्पित करनेवाले के (गृहे) हृदयघर में (स्तोमेभिः) स्तुतिवचनों द्वारा (त्वां वि रुरुचुः) तुझे प्रकाशित करते हैं ॥५॥
Connotation: - परमात्मा वरने योग्य और प्रेरक है, अध्यात्मयाजी तेजस्वी महानुभाव उसे प्राप्त करते हैं, वह आत्मसमर्पी के हृदयघर में साक्षात् होता है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (त्वं प्रथमः-वरेण्यः-दूतः) हे परमात्मन् ! त्वं प्रथमो वरणीयः सर्वेषां प्रेरयिता (सः-हूयमानः) स त्वं प्रार्थयमानः सन् (अमृताय) अमरत्वाय मोक्षाय (मत्स्व) मां हर्षय “अन्तर्गतो णिजर्थः” (मरुतः-भृगवः) अध्यात्मयज्ञस्यार्त्विजः “मरुतः ऋत्विजः” [निघ० ३।१८] ज्ञानेन दीप्यमानाः “भृगवः परिपक्वविज्ञाना मेधाविनो विद्वांसः” [ऋ० १।५८।६ दयानन्दः] (त्वां मर्जयन्) त्वां प्राप्नुवन्ति “मार्ष्टि गतिकर्मा” [निघ० २।१४] अथ च (दाशुषः-गृहे स्तोमेभिः-त्वं वि रुरुचुः) दत्तवत आत्मनो गृहे हृदये स्तुतिभिस्त्वां विशेषेण दीपयन्ति-प्रकाशयन्ति “रुच-दीप्तौ” [भ्वादि०] ॥५॥