Go To Mantra

स इद॒ग्निः कण्व॑तम॒: कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥

English Transliteration

sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ | agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ ||

Pad Path

सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥ १०.११५.५

Rigveda » Mandal:10» Sukta:115» Mantra:5 | Ashtak:8» Adhyay:6» Varga:18» Mantra:5 | Mandal:10» Anuvak:10» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (सः-इत्) वह ही (अग्निः) अग्रणेता परमात्मा (कण्वतमः) अत्यन्त मेधावी (कण्वसखा) तथा मेधाविजनों का मित्र (अर्यः) स्वामी है (अग्निः परस्य) परमात्मा दूसरे के निमित्त किये पाप का (अन्तरस्य) अपने अन्दर के स्वविषयक पाप का (तरुषः) हिंसक नाशक है (अग्निः) परमात्मा (गृणतः पातु) स्तुति करनेवाले जनों की रक्षा करता है (अग्निः) परमात्मा (तेषाम्) उन (नः) हम (सूरीन्) स्तुति करनेवालों को (अवः) रक्षण (ददातु) देता है ॥५॥
Connotation: - परमात्मा अत्यन्त मेधावी स्तुति करनेवालों का मित्र और स्वामी है। वह दूसरे के प्रति किये हुए अपने अन्दर के पाप को नष्ट करता है और स्तुति करनेवाले की रक्षा करता है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः-इत्-अग्निः कण्वतमः-कण्वसखा-अर्यः) सोऽग्निरग्रणेता परमात्माऽतिशयेन-मेधावी “कण्वो मेधाविनाम” [निघ० ३।१५] तथा मेधाविनः-सखायो यस्य तथाभूतः सोऽर्यः स्वामी च सर्वेषां (अग्निः परस्य-अन्तरस्य तरुषः) परमात्मा परस्मिन् कृतस्य पापस्य स्वान्तरे कृते स्वविषयकपापस्य हिंसको नाशकोऽस्ति “तरुष्यति हिंसाकर्मा” [निरु० ५।२१] (अग्निः) परमात्मा (गृणतः पातु) स्तुतिं कुर्वतो जनान् रक्षति, लुडर्थे लोट् (अग्निः) परमात्मा (तेषां नः सूरीन्-अवः-ददातु) तेषां तान्-अस्मान् स्तुतिकर्तॄन् रक्षणं ददाति “सूरिः स्तोतृनाम” [निघ० ३।१६] ॥५॥