Go To Mantra

तं वो॒ विं न द्रु॒षदं॑ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ॑न्तं प्र॒वप॑न्तमर्ण॒वम् । आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रज॑न्त॒मध्व॑नः ॥

English Transliteration

taṁ vo viṁ na druṣadaṁ devam andhasa indum prothantam pravapantam arṇavam | āsā vahniṁ na śociṣā virapśinam mahivrataṁ na sarajantam adhvanaḥ ||

Pad Path

तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् । आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥ १०.११५.३

Rigveda » Mandal:10» Sukta:115» Mantra:3 | Ashtak:8» Adhyay:6» Varga:18» Mantra:3 | Mandal:10» Anuvak:10» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (वः) हे मनुष्यों ! तुम (तं देवम्) उस परमात्मदेव (अन्धसः-इन्दुम्) आध्यानीय स्नेहकर्त्ता (प्रोथन्तम्) प्राप्त होते हुए (प्रवपन्तम्) ज्ञानबीज बोते हुए (अर्णवम्) समुद्र के समान महान् (विं न द्रुषदम्) वृक्ष पर बैठनेवाले पक्षी के समान, संसारवृक्ष पर विराजमान परमात्मा को स्तुति में लाओ (आसा) भलीभाँति फेंकने के साधन (शोचिषा) तेज से (विरप्शिनम्) महान् (महिव्रतम्) महाकर्मवाले (अध्वनः-सरजन्तम्) मोक्षमार्ग के स्रष्टा (वह्निम्) संसार के वहन करनेवाले परमात्मा की स्तुति करो ॥३॥
Connotation: - मनुष्यों को चाहिये कि स्नेहकर्त्ता व्यापक ज्ञान के बीज को देनेवाले संसार के अधिष्ठाता मोक्षमार्ग के सृजन करनेवाले परमात्मा की स्तुति करें ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वः) हे मनुष्याः ! यूयम्, व्यत्ययेन द्वितीया (तं देवम्-अन्धसः-इन्दुम्) तं परमात्मदेवम् आध्यानीयं स्नेहसेक्तारं “इन्दुरिन्धतेः” (प्रोथन्तम्) पर्याप्नुवन्तं (प्रवपन्तम्) ज्ञानबीजं वपन्तं (अर्णवम्) समुद्रमिव महान्तं (विं न द्रुषदम्) वृक्षसदं पक्षीव संसारवृक्षसदं तं परमात्मानं स्तुवीध्वमिति शेषः (आसा) समन्तक्षेपणेन “आङ्पूर्वात् असु क्षेपणे” ततः क्विप् (शोचिषा) तेजसा (विरप्शिनम्) महान्तं (महिव्रतम्) महाकर्माणं (अध्वनः सरजन्तम्) मोक्षमार्गस्य स्रष्ट्रारं (वह्निम्) संसारस्य वोढारं परमात्मानं स्तुवीध्वम्, उभयत्र नकारौ पदपूरणौ ॥३॥