स॒वि॒ता त्वा॑ स॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ सोमो॒ वन॒स्पती॑नाम्। बृह॒स्पति॑र्वा॒चऽइन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मित्रः॒ स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ॥३९॥
स॒वि॒ता। त्वा॒। स॒वाना॑म्। सु॒व॒ता॒म्। अ॒ग्निः। गृ॒ह॑पतीना॒मिति॑ गृ॒हऽप॑तीनाम्। सोमः॑। वन॒स्पती॑नाम्। बृह॒स्पतिः॑। वा॒चे। इन्द्रः॑। ज्यैष्ठ्या॑य। रु॒द्रः। प॒शुभ्य॒ इति॑ पशुऽभ्यः॑। मि॒त्रः॒। स॒त्यः। वरु॑णः। धर्म॑पतीना॒मिति॒ धर्म॑ऽपतीनाम् ॥३९॥
हिन्दी - स्वामी दयानन्द सरस्वती
सभ्य मनुष्य राजा को किस-किस विषय में प्रेरणा करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
सभ्यैर्मनुष्यै राजा क्व क्व प्रेरयितव्य इत्याह ॥
(सविता) ऐश्वर्य्यस्य प्रसविता (त्वा) त्वाम् (सवानाम्) ऐश्वर्य्यणाम् (सुवताम्) प्रेर्ताम्, अत्र व्यत्ययेनात्मनेपदम् (अग्निः) प्रकाशयुक्तः (गृहपतीनाम्) गृहाऽऽश्रमपालकानाम् (सोमः) सोम्यगुणसम्पन्नो वैद्यकविषय ओषधीराजः (वनस्पतीनाम्) पिप्पल्यादीनाम् (बृहस्पतिः) पूर्णविद्य आप्तः (वाचे) वेदाऽर्थसुशिक्षायुक्तवाणीविज्ञानाय (इन्द्रः) परमैश्वर्य्ययोगारूढो वृद्धः (ज्यैष्ठ्याय) अतिशयेन वृद्धस्य भावाय (रुद्रः) शत्रूणां रोदयिता शूरवीरः (पशुभ्यः) गवादीनाम् (मित्रः) सर्वस्य सुहृत् (सत्यः) सत्पुरुषेषु भवः (वरुणः) धर्म्माऽऽचरणेन श्रेष्ठः (धर्म्मपतीनाम्) धर्म्मस्य रक्षितॄणाम्। अयं मन्त्रः (शत०५.३.३.१०) व्याख्यातः ॥३९॥