उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो᳖ऽसि चनो॒धाश्च॑नो॒धाऽअ॑सि॒ चनो॒ मयि॑ धेहि। जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे ॥७॥
उ॒प॒या॒मगृही॑त॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सा॒वि॒त्रः। अ॒सि॒। च॒नो॒धा इति॑ चनः॒ऽधाः। च॒नो॒धा इति॑ चनः॒ऽधाः। अ॒सि॒। चनः॑। मयि॑। धे॒हि॒। जिन्व॑। य॒ज्ञम्। जिन्व॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दे॒वाय॑। त्वा॒। स॒वि॒त्रे ॥७॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी गृहाश्रम का धर्म अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनश्च गृहस्थधर्ममुपदिश्यते ॥
(उपयामगृहीतः) उपयामेन विवाहनियमेन गृहीतः (असि) (सावित्रः) सविता सकलजगदुत्पादकः परमेश्वरो देवता यस्य सः (असि) (चनोधाः) चनांस्यन्नानि दधातीति। चन इत्यन्ननामसु पठितम्। (निरु०६.१६) (चनोधाः) अभ्यासेनाधिकार्थो ग्राह्यः, सर्वेभ्योऽधिकान्नवान् गम्यते। अभ्यासे भूयांसमर्थं मन्यते। (निरु०१०.४२) (असि) (चनः) (मयि) अन्नग्रहणनिमित्तायां विवाहितायां स्त्रियाम् (धेहि) धर (जिन्व) प्राप्नुहि जानीहि वा। जिन्वतीति गतिकर्मसु पठितम्। (निघं०२.१४) (यज्ञम्) धर्म्मदृढैः पुरुषैः सङ्गन्तव्यम् (जिन्व) प्रीणीहि (यज्ञपतिम्) गृहाश्रमस्य पालकं पुरुषपालिकां स्त्रियं वा (भगाय) धनाद्याय सेवनीयायैश्वर्य्याय। भग इति धननामसु पठितम्। (निघं०२.१०) (देवाय) दिव्याय कमनीयाय (त्वा) त्वाम् (सवित्रे) सन्तानोत्पादकाय। अयं मन्त्रः (शत०४.४.१.६) व्याख्यातः ॥७॥