विश्वे॑ दे॒वाश्च॑म॒सेषून्नी॒तोऽसु॒र्होमा॒योद्य॑तो रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षो भक्ष्यमा॑णः पि॒तरो॑ नाराश॒ꣳसाः ॥५८॥
विश्वे॑। दे॒वाः। च॒म॒सेषु॑ उन्नी॑त॒ इत्युत्ऽनी॑तः। असुः॑। होमा॑य। उद्य॑त॒ इत्युत्ऽय॑तः। रु॒द्रः। हू॒यमा॑नः। वातः॑। अभ्यावृ॑त॒ इत्य॑भि॒ऽआवृ॑तः। नृ॒चक्षा॒ इति॑ नृ॒ऽचक्षाः॑। प्रति॑ख्यात॒ इति॒ प्रति॑ऽख्यातः। भ॒क्षः। भ॒क्ष्यमा॑णः। पि॒तरः॑। ना॒रा॒श॒ꣳसाः ॥५८॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर प्रकारान्तर से विद्वद्विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः प्रकारान्तरेण विद्वद्विषयमाह ॥
(विश्वे) सर्वे (देवाः) विद्वांसः (चमसेषु) मेघेषु। चमस इति मेघनामसु पठितम्। (निघं०१.१०) (उन्नीतः) ऊर्ध्वं नीतः सुगन्धादिपदार्थः (असुः) प्राणः (होमाय) दानायादानाय वा (उद्यतः) प्रयत्नेन प्रेरितः (रुद्रः) जीवः (हूयमानः) स्वीकृतः (वातः) बाह्यो वायुः (अभ्यावृतः) आभिमुख्येनाङ्गीकृतः (नृचक्षाः) नॄन् मनुष्यान् चष्ट इति (प्रतिख्यातः) ख्यातं ख्यातं प्रतीति (भक्षाः) भोज्यसमूहः (भक्ष्यमाणः) भुज्यमानः (पितरः) ज्ञानिनः (नाराशंसाः) नारानाशंसन्ति नराशंसानामिम उपदेशकाः। अयं मन्त्रः (शत०१२.३.१.२७-३३) व्याख्यातः ॥५८॥