विश्वे॑ दे॒वाऽअ॒ꣳशुषु॒ न्यु᳖प्तो॒ विष्णु॑राप्रीत॒पाऽआ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णुः॑ सम्भ्रि॒यमा॑णो वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः। शु॒क्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः ॥५७॥
विश्वे॑। दे॒वाः। अ॒ꣳशुषु॑। न्यु॑प्त॒ इति॑ निऽउ॑प्तः। विष्णुः॑। आ॒प्री॒त॒पा इत्या॑प्रीत॒ऽपाः। आ॒प्या॒य्यमा॑न॒ इत्या॑ऽप्या॒य्यमा॑नः। य॒मः। सू॒यमा॑नः। विष्णुः॑। स॒म्भ्रि॒यमा॑ण इति॑ सम्ऽभ्रि॒यमा॑णः। वा॒युः। पू॒यमा॑नः। शु॒क्रः। पू॒तः॒। शु॒क्रः। क्षी॒र॒श्रीरिति॑ क्षीर॒ऽश्रीः। म॒न्थी। स॒क्तु॒श्रीरिति॑ सक्तु॒ऽश्रीः ॥५७॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब गृहस्थ कर्म्म में कुछ विद्वानों का पक्ष अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ गार्हस्थ्यकर्म्मणि विद्वत्पक्षे किंचिदाह ॥
(विश्वे) सर्वे (देवाः) विद्वांसः (अंशुषु) विभक्तेषु सांसारिकेषु पदार्थेषु (न्युप्तः) नित्यं स्थापितो व्यवहारः (विष्णुः) व्यापिका विद्युत् (आप्रीतपाः) समन्तात् प्रीतान् कमनीयान् पदार्थान् पाति रक्षति (आप्याय्यमानः) वृद्ध इव (यमः) यच्छति सोऽयं सूर्य्यः (सूयमानः) उत्पद्यमानः (विष्णुः) व्यापकः (सम्भ्रियमाणः) सम्यक् पोषितः (वायुः) प्राणः (पूयमानः) पवित्रीकृतः (शुक्रः) वीर्य्यसमूहः (पूतः) शुद्धः (शुक्रः) आशुकर्त्ता (क्षीरश्रीः) यः क्षीरादीनि शृणाति (मन्थी) मथ्नातीति (सक्तुश्रीः) यः सक्तूनि समवेतानि द्रव्याणि श्रयति। अयं मन्त्रः (शत०१२.६.१.१९-२६) व्याख्यातः ॥५७॥