व्रेशी॑नां त्वा॒ पत्म॒न्नाधू॑नोमि। कुकू॒नना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि। भ॒न्दना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्नाधू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्नाधू॑नोमि शु॒क्रं त्वा॑ शु॒क्रऽआधू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ॥४८॥
व्रेशी॑नाम्। त्वा। पत्म॑न्। आ। धू॒नो॒मि॒। कुकू॒नना॑नाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। भ॒न्दना॑नाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। म॒दिन्त॑माना॒मिति॑ म॒दिन्ऽत॑मानाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। म॒धुन्त॑माना॒मिति॑ म॒धुन्ऽत॑मानाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। शु॒क्रम्। त्वा॒। शु॒क्रे। आ। धू॒नो॒मि॒। अह्नः॑। रू॒पे। सूर्य्य॑स्य। र॒श्मिषु॑ ॥४८॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब गार्हस्थ्य कर्म्म में पत्नी अपने पति को उपदेश देती है, यह अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ गार्हस्थ्यकर्म्मणि पत्नी पतिमुपदिशति ॥
(व्रेशीनाम्) दिव्यानामपामिव निर्मलविद्यासुशीलव्याप्तानाम्, एता वै दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी रसं दधाति। (शत०११.५.९.८) (त्वा) त्वाम् (पत्मन्) धर्मात् पतनशील (आ) (धूनोमि) समन्तात् कम्पयामि, अत्रान्तर्गतो णिच् (कुकूननानाम्) भृशं शब्दविद्यया नम्राणाम्, कुङ् शब्दे इत्यस्माद् यङि गुणाभावेऽभ्यस्ततः कुकूपपदान्नम धातोरौणादिको नक् प्रत्ययश्च ततः षष्ठीबहुवचनम् (त्वा) (पत्मन्) (आ) (धूनोमि) (भन्दनानाम्) कल्याणचरणानाम् (त्वा) (पत्मन्) (आ) (धूनोमि) (मदिन्तमानाम्) अतिशयितानन्दितानां परस्त्रीणां समीपे (त्वा) (पत्मन्) चञ्चलचेतः (आ) (धूनोमि) (मधुन्तमानाम्) अतिशयेन माधुर्यगुणोपेतानाम्, वा छन्दसि सर्वे विधयो भवन्ति। (अष्टा०भा०वा०१.४.९) इति नुडागमः (त्वा) (पत्मन्) (आ) (धूनोमि) (शुक्रम्) शुद्धं वीर्यवन्तम् (त्वा) (शुक्रे) (आ) (धूनोमि) (अह्नः) दिनस्य (रूपे) (सूर्यस्य) (रश्मिषु)। अयं मन्त्रः (शत०११.५.९.८-९) व्याख्यातः ॥४५॥