वांछित मन्त्र चुनें

दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य᳖कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नम-स्या॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नम॒स्येन॑सऽएनसोऽव॒यज॑नमसि। यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्व॒स्यैन॑सोऽव॒यज॑नमसि ॥१३॥

मन्त्र उच्चारण
पद पाठ

दे॒वकृ॑त॒स्येति॑ दे॒वऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। म॒नु॒ष्य॒कृत॒स्येति॑ म॒नु॒ष्य᳖ऽकृत॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। पि॒तृकृ॑त॒स्येति॑ पि॒तृऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। आ॒त्मकृ॑त॒स्येत्या॒त्मऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। एन॑स एनस॒ इत्येन॑सःऽएनसः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। यत्। च॒। अ॒हम्। एनः॑। वि॒द्वान्। च॒कार॑। यत्। च॒। अवि॑द्वान्। तस्य॑। सर्व॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒ ॥१३॥

यजुर्वेद » अध्याय:8» मन्त्र:13


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अगले मन्त्र में पूर्वोक्त विषय प्रकारान्तर से कहा है ॥

पदार्थान्वयभाषाः - हे सब के उपकार करनेवाले मित्र ! आप (देवकृतस्य) दान देनेवाले के (एनसः) अपराध के (अवयजनम्) विनाश करनेवाले (असि) हो, (मनुष्यकृतस्य) साधारण मनुष्यों के किये हुए (एनसः) अपराध के (अवयजनम्) विनाश करनेवाले (असि) हो, (पितृकृतस्य) पिता के किये हुए (एनसः) विरोध आचरण के (अवयजनम्) अच्छे प्रकार हरनेवाले (असि) हो, (आत्मकृतस्य) अपने किये हुए (एनसः) पाप के (अवयजनम्) दूर करनेवाले (असि) हो, (एनसः) (एनसः) अधर्म्म-अधर्म्म के (अवयजनम्) नाश करनेहारे (असि) हो, (विद्वान्) जानता हुआ मैं (यत्) जो (च) कुछ भी (एनः) अधर्म्माचरण (चकार) किया, करता हूँ वा करूँ (अविद्वान्) अनजान मैं (यत्) जो (च) कुछ भी किया, करता हूँ वा करूँ (तस्य) उस (सर्वस्य) सब (एनसः) दुष्ट आचरण के (अवयजनम्) दूर करनेवाले आप (असि) हैं ॥१३॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे विद्वान् गृहस्थ पुरुष दान आदि अच्छे काम के करनेवाले जनों के अपराध दूर करने में अच्छा प्रयत्न करें। जाने वा विना जाने अपने कर्त्तव्य अर्थात् जिस को चाहता हो, उस अपराध को आप छोड़ें तथा औरों के किये हुए अपराध को औरों से छुड़ावें, वैसे कर्म करके सब लोग यथोक्त समस्त सुखों को प्राप्त हों ॥१३॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पूर्वोक्तविषयं प्रकारान्तरेणाह ॥

अन्वय:

(देवकृतस्य) दानशीलकृतस्य (एनसः) पापस्य (अवयजनम्) पृथक्करणम् (असि) (मनुष्यकृतस्य) साधारणजनेनाचरितस्य (एनसः) अपराधस्य (अवयजनम्) दूरीकरणम् (असि) (पितृकृतस्य) जनककृतस्य (एनसः) विरोधाचरणस्य (अवयजनम्) परिहरणम् (असि) (आत्मकृतस्य) स्वयमाचरितस्य (एनसः) पापस्य (अवयजनम्) (असि) (एनसः) (एनसः) अधर्म्मस्याधर्म्मस्य (अवयजनम्) परिहरणम् (असि) (यत्) अतीते काले (च) वर्त्तमाने (अहम्) (एनः) अधर्म्माचरणम् (विद्वान्) जानन् सन् (चकार) कृतवान्, करोमि, करिष्यामि वा, अत्र छन्दसि लुङ्लिङ्लिटः। (अष्टा०३.४.६) इति कालसामान्ये लिट्। (यत्) (च) अविद्यासमुच्चये (अविद्वान्) अजानन् सन् (तस्य) (सर्वस्य) (एनसः) दुष्टाचरणस्य (अवयजनम्) दूरीकरणम् (असि)। अयं मन्त्रः (शत०४.३.६.१) व्याख्यातः ॥१३॥

पदार्थान्वयभाषाः - हे सर्वोपकारिन् सखे ! त्वं देवकृतस्यैनसोऽवयजनमसि, मनुष्यकृतस्यैनसोऽवयजनमसि, पितृकृतस्यैनसोऽवयजनमसि, आत्मकृतस्यैनसोऽवयजनमसि। एनस एनसोऽवयजनमसि, विद्वानहं यच्चैनः पापं चकार कृतवान्, करोमि, करिष्यामि, अविद्वानहं यच्चैनः कृतवान् करोमि, करिष्यामि वा तस्य सर्वस्यैनसोऽवयजनं चासि ॥१३॥
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा विद्वान् गृहाश्रमी पुरुषो दानादिप्रसक्तपुरुषाणामपराधदूरीकरणे प्रयतेत। जानन्नजानन् वात्मकृतमपराधं स्वयं त्यजेदन्यकृतमन्यस्मान्निवारयेत्। तथानुष्ठाय सर्वे यथोक्तं सुखं प्राप्नुयुरिति ॥१३॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. विद्वान माणसांनी दानी लोकांतील दोष दूर करण्याचा प्रयत्न करावा. कळत नकळत होणाऱ्या अपराधापासून दूर होण्याचा स्वतः प्रयत्न करावा व इतरांनाही अपराधापासून दूर करण्याचा प्रयत्न करावा, अशाप्रकारे काम करून सर्व लोकांना सुखी करावे.