आ वा॑यो भूष शुचिपा॒ऽउप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार। उपो॑ ते॒ऽअन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ॥७॥
आ। वा॒यो॒ऽइति॑ वायो। भू॒ष॒। शुचि॒पा॒ इति॑ शुचिऽपाः। उप॑ नः॒। स॒हस्र॑म्। ते॒। नि॒युत॒ इति॑ नि॒ऽयुतः॑। वि॒श्व॒वा॒रेति॑ विश्वऽवार। उपो॒ऽइत्यु॑पो॑। ते॒। अन्धः॑। मद्य॑म्। अ॒या॒मि॒। यस्य॑। दे॒व॒। द॒धि॒षे। पू॒र्वपेय॒मिति॑ पूर्वऽपेय॑म्। वा॒यवे॑। त्वा॒ ॥७॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर योगी का कृत्य अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्योगिकृत्यमाह ॥
(आ) समन्तात् (वायो) वायुरिव वर्त्तमान (भूष) अलंकुरु (शुचिपाः) शुचि पवित्रतां पालयतीति शुचिपाः पवित्रपालक (उप) (नः) अस्मान् (सहस्रम्) (ते) तव (नियुतः) नियुज्यन्ते ये तान् निश्चितान् शमादिगुणान्, अत्र कर्म्मणि क्विप्। (विश्ववार) विश्वान् सर्वानानन्दान् वृणोति तत्सम्बुद्धौ (उपो) समीपम् (ते) (अन्धः) अन्नम् (मद्यम्) तृप्तिप्रदम् (अयामि) प्राप्नोमि (यस्य) (देव) योगेनात्मप्रकाशित (दधिषे) धरसि (पूर्वपेयम्) पूर्वैः पातुं योग्यमिव (वायवे) (त्वा) त्वाम् ॥ अयं मन्त्रः (शत०४.१.३.१८) व्याख्यातः ॥७॥