रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो वि॒श्ववे॑दा॒ विभ॑जतु। ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्वः॒ पश्य॒ व्य᳕न्तरि॑क्षं॒ यत॑स्व सद॒स्यैः᳖ ॥४५॥
रूपेण॑। वः॒। रू॒पम्। अ॒भि। आ। अ॒गा॒म्। तु॒थः। वः॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवेदाः। वि। भ॒ज॒तु॒। ऋ॒तस्य॑। प॒था। प्र। इ॒त॒। च॒न्द्रद॑क्षिणा॒ इति॑ च॒न्द्रऽद॑क्षिणाः। वि। स्व॒रिति॒ स्वः᳖। पश्य॑। वि। अ॒न्तरि॑क्षम्। यत॑स्व। स॒द॒स्यैः᳖ ॥४५॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब तीन सभाओं से राज्य की शिक्षा करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सभात्रयेण राज्यं शासनीयमित्युपदिश्यते ॥
(रूपेण) चक्षुग्राह्येण प्रियेण (वः) युष्माकम् (रूपम्) स्वरूपम् (अभि) सम्मुखे (आ) समन्तात् (अगाम्) (तुथः) ज्ञानवृद्धः, अत्र तु गतिवृद्धिहिंसास्वित्यस्मादौणादिकस्थक् प्रत्ययः। (वः) युष्मान् (विश्ववेदाः) यः परत्मात्मा विश्वं सर्वं वेत्ति तद्वद्वर्त्तमानः (वि) (भजतु) विभागं करोतु (ऋतस्य) सत्यस्य (पथा) मार्गेण (प्र) (इत) प्राप्नुत (चन्द्रदक्षिणाः) चन्द्रं सुवर्णं दक्षिणा दानं येषां ते। चन्द्रमिति हिरण्यनामसु पठितम्। (निघं०१.२) (वि) (स्वः) उपतपन्नादित्य इव। स्वरादित्यो भवति। (निरु०२.१४) (पश्य) प्रचक्ष्व (वि) विविधार्थे (अन्तरिक्षम्) क्षयरहितमन्तर्य्यामिस्वाभाविकं ब्रह्मविज्ञानं वा। अन्तरिक्षम् कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेष्वन्तरक्षयमिति वा। (निरु०२.१०) (यतस्व) प्रयत्नं कुरु (सदस्यैः) सदसि भवैः सभ्यैर्जनैः सह ॥ अयं मन्त्रः (शत०४.३.४.१४-१८) व्याख्यातः ॥४५॥