चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्ष॒ꣳ सूर्य॑ऽआ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ ॥४२॥
चित्र॒म्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ। अ॒प्राः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। सूर्य्यः॑। आ॒त्मा। जग॑तः। त॒स्थुषः॑। च॒। स्वाहा॑ ॥४२॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वैसे ही ईश्वर के गुणों का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरित्थमेवेश्वरस्य गुणा उपदिश्यन्ते ॥
(चित्रम्) अद्भुतम् (देवानाम्) चक्षुरादीनामिव विदुषाम् (उत्) उद्गमने (अगात्) प्राप्नोति (अनीकम्) बलवत्तरं सैन्यमिव प्रसिद्धम्। अनिति जीवयति सर्वान् प्राणिनः सः। अनिहृषिभ्यां किच्च। (उणा०४.१७) अनेन ईकन् प्रत्ययः। (चक्षुः) दर्शकम् (मित्रस्य) सख्युः प्राणस्य वा (वरुणस्य) श्रेष्ठस्योदानस्य वा (अग्नेः) विद्युतः (आ) समन्तात् (अप्राः) यः प्राति पिपर्त्ति, अत्र लडर्थे लुङ्। (द्यावापृथिवी) भूमिवियतौ (अन्तरिक्षम्) सर्वान्तर्गतमनन्तमाकाशम् (सूर्य्यः) स्वयंप्रकाशः (आत्मा) अतति सर्वत्र व्याप्नोति (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (च) जीवानां समुच्चये (स्वाहा) सत्यया क्रियया ॥ इमं मन्त्रं यास्कमुनिरेवं समाचष्टे−‘चायनीयं देवानामुदगमदनीकं ख्यानं मित्रस्य वरुणस्याग्नेश्चापूपुरद् द्यावापृथिव्यौ चान्तरिक्षं च महत्त्वेन तेन सूर्य आत्मा जङ्गमस्य च स्थावरस्य च’। (निरु०१२.१६)। अयं मन्त्रः (शत०४.३.४.१०) व्याख्यातः ॥४२॥