म॒रुत्वाँ॑२इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य। आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ऽऊ॒र्म्मिं त्वꣳ राजा॑सि॒ प्रति॑पत् सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा मरु॒त्व॑ते ॥३८॥
म॒रुत्वा॑न्। इ॒न्द्र॒। वृ॒ष॒भः। रणा॑य। पिब॑। सोम॑म्। अ॒नु॒ष्व॒धम्। अ॒नु॒स्व॒धमित्य॑नुऽस्व॒धम्। मदा॑य। आ। सि॒ञ्चस्व॒। ज॒ठरे॑। मध्वः॑। ऊ॒र्म्मिम्। त्वम्। राजा॑। अ॒सि॒। प्रति॑प॒दिति॒ प्रति॑ऽपत्। सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते ॥३८॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सभाध्यक्ष के लिये अगले मन्त्र में उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सभाध्यक्षायोपदेशः क्रियते ॥
(मरुत्वान्) प्रशस्ता मरुतः प्रजा सेना वा विद्यन्ते यस्य सः (इन्द्र) शत्रुजित् (वृषभः) शरीरात्मबलैश्वर्य्ययुक्तः (रणाय) सङ्ग्रामाय। रण इति सङ्ग्रामनामसु पठितम्। (निघं०२.१७) (पिब) अत्र द्व्यचोऽतस्तिङः। (अष्टा०६.३.१३५) इति दीर्घः। (सोमम्) सोमाद्योषधिसमूहम् (अनुष्वधम्) सर्वेषु पक्वान्नेष्वनुकूलम्, अत्र विभक्त्यर्थेऽव्ययीभावः समासः। (मदाय) हर्षाय (आसिञ्चस्व) (जठरे) उदरे (मध्वः) मधुरस्य (ऊर्म्मिम्) लहरीम् (त्वम्) सभासेनापतिः (राजा) प्रकाशमानः (असि) (प्रतिपत्) पद्यते विचार्य्यते योऽर्थविषयः स पतं पतं प्रतीति प्रतिपत् (सुतानाम्) सुसंस्कारेण निष्पादितानामन्नानाम् (उपयामगृहीतः) राजनियमैः स्वीकृतः (असि) (इन्द्राय) परमैश्वर्यप्रापकाय रणाय (त्वा) मरुत्वते प्रशस्तानि मरुदस्त्राणि विद्यन्ते यत्र तस्मै (एषः) (ते) (योनिः) (इन्द्राय) राज्यैश्वर्य्याय (त्वा) (मरुत्वते) प्रजापालनसम्बद्धाय ॥३८॥