ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ऽआग॑त। दा॒श्वासो॑ दा॒शुषः॑ सु॒तम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥३३॥
ओमा॑सः। च॒र्ष॒णी॒धृ॒तः॒। च॒र्ष॒णि॒धृ॒त॒ इति॑ चर्षणिऽधृतः। विश्वे॑। दे॒वा॒सः॒। आ। ग॒त॒। दा॒श्वासः॑। दा॒शुषः॑। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑ ॥३३॥
हिन्दी - स्वामी दयानन्द सरस्वती
पढ़ने और पढ़ानेवालों का परस्पर व्यवहार अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अध्यापकाध्येतॄणां परस्परं कर्त्तव्यमुपदिश्यते ॥
(ओमासः) अवन्ति सद्गुणै रक्षन्ति ते (चर्षणीधृतः) चर्षणयो मनुष्यास्तान् धरन्ति पोषयन्ति ते। अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) इति दीर्घः। (विश्वे) सर्वे (देवासः) विद्वांसः (आ) (गत) (दाश्वांसः) उत्कृष्टज्ञानं दत्तवन्तः। दाश्वान् साह्वान्०। (अष्टा०६.१.१२) इति निपातनम्। (दाशुषः) दानशीलस्योत्तमजनस्य (सुतम्) सवति सत्कर्मानुष्ठानेनैश्वर्य्यं प्राप्नोति तं बालकम् (उपयामगृहीतः) अध्यापननियमैः स्वीकृतः (असि) (विश्वेभ्यः) अखिलेभ्यः (त्वा) त्वाम् (देवेभ्यः) विद्वद्भ्यः (ते) तव (एषः) विद्याशिक्षासंग्रहः (ते) तव (योनिः) कारणम् (विश्वेभ्यः) अखिलेभ्यः (देवेभ्यः) विद्वद्भ्यः (त्वा) त्वाम् ॥ अयं मन्त्रः (शत०४.३.१.२७) व्याख्यातः ॥३३॥