उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वतऽउक्था॒व्यं᳖ गृह्णामि। यत्त॑ऽइन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं᳖ य॒ज्ञस्यायु॑षे गृह्णामि ॥२२॥
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृहीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। बृहद्व॑त॒ इति॑ बृहत्ऽव॑ते। वय॑स्वते। उ॒क्थाव्य᳖मित्यु॑क्थऽअ॒व्य᳖म्। गृ॒ह्णा॒मि॒। यत्। ते॒। इ॒न्द्र॒। बृ॒हत्। वयः॑। तस्मै॑। त्वा॒। विष्ण॑वे। त्वा॒। ए॒षः। ते॒। योनिः॑। उ॒क्थेभ्यः॑। त्वा॒। दे॒वेभ्यः॑। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒ ॥२२॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब कैसे मनुष्य को सेनापति करे, यह अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कीदृशं जनं सेनापतिं कुर्य्यादित्युपदिश्यते ॥
(उपयामगृहीतः) सुनियमैरधीतविद्यः (असि) (इन्द्राय) परमैश्वर्यवते (त्वा) त्वाम् (बृहद्वते) प्रशस्तानि बृहन्ति कर्म्माणि यस्य तस्मै (वयस्वते) बहु जीवनं विद्यते यस्य तस्मै (उक्थाव्यम्) प्रशंसार्हाणि स्तोत्राणि शस्त्रविशेषाणि वा तस्य तमिव सेनापतिम् (गृह्णामि) (यत्) (ते) तव (इन्द्र) (बृहत्) (वयः) जीवनम् (तस्मै) (त्वा) त्वाम् (विष्णवे) परमेश्वराय यज्ञाय वा (त्वा) त्वाम् (एषः) (ते) तव (योनिः) स्थित्यर्थं स्थानविशेषः (उक्थेभ्यः) प्रशंसनीयेभ्यो वेदोक्तेभ्यः कर्म्मभ्यः (त्वा) त्वाम् (देवेभ्यः) विद्वद्भ्यो दिव्यगुणेभ्यो वा (त्वा) त्वाम् (देवाव्यम्) उक्तानां देवानां पालकम् (यज्ञस्य) राज्यपालनादेः (आयुषे) जीवनाय (गृह्णामि) ॥ अयं मन्त्रः (शत०४.२.३.१०-११) व्याख्यातः ॥२२॥