मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्र॑वन्ता। आ यः शर्या॑भिस्तुविनृ॒म्णोऽअ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥१७॥
मनः॑। न। येषु॑। हव॑नेषु। ति॒ग्मम्। विपः॑। शच्या॑। व॒नु॒थः। द्र॑वन्ता। आ। यः। शर्य्या॑भिः। तुवि॒नृम्ण इति॑ तुविऽनृ॒म्णः। अ॒स्य॒। अश्री॑णीत। आ॒दिश॒मित्या॒ऽदिश॑म्। गभ॑स्तौ। ए॒षः। ते॒। योनिः॑। प्र॒जा इति॑ प्र॒ऽजाः। पा॒हि॒। अप॑मृष्ट॒ इत्यप॑ऽमृष्टः। मर्कः॑। दे॒वाः। त्वा॒। म॒न्थि॒पा इति॑ मन्थि॒ऽपाः। प्र। न॒य॒न्तु॒। अना॑धृष्टा। अ॒सि॒ ॥१७॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(मनः) विज्ञानम् (न) इव (येषु) (हवनेषु) धर्म्मेणैवादानेषु (तिग्मम्) वज्रवत् तीव्रम्। तिग्ममिति वज्रनामसु पठितम्। (निघं०२.२०) (विपः) विविधं पातीति विपो मेधावी। विप इति मेधाविनामसु पठितम्। (निघं०३.१५) (शच्या) प्रज्ञया। शचीति प्रज्ञानामसु पठितम्। (निघं०३.९) (वनुथः) कामयेथे। वनोतीति कान्तिकर्म्मसु पठितम्। (निघं०२.६) (द्रवन्ता) गन्तारौ। अत्र सुपां सुलुग् [अष्टा०७.१.३९] इत्याकारादेशः (अष्टा०७.१.१३९) (आ) (यः) (शर्य्याभिः) गतिभिः (तुविनृम्णः) तुवीनि बहूनि धनानि यस्य सः। तुवीति बहुनामसु पठितम्। (निघं०२.५) (अस्य) (अश्रीणीत) श्रीणाति पचति (आदिशम्) दिशमभिव्याप्येव (गभस्तौ) अङ्गुल्या निर्देशे। गभस्तय इत्यङ्गुलिनामसु पठितम्। (निघं०२.५) (एषः) राजधर्म्मः (ते) तव (योनिः) गृहम् (प्रजाः) संरक्षणीयाः (पाहि) (अपमृष्टः) दूरीकृतः (मर्कः) मरणदुःखदो दुर्नयः (देवाः) विद्वांसः (त्वा) त्वाम् (मन्थिपाः) ये मन्थन्ति शत्रून् तान् वीरान् पान्ति ते (प्र) (नयन्तु) प्रीणयन्तु (अनाधृष्टा) अधर्षणीया (असि) लोडर्थे लट् ॥ अयं मन्त्रः (शत०४.१.६.१२-१५) व्याख्यातः ॥१७॥