प॒रि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परी॒मं यज॑मान॒ꣳ रायो॑ मनु॒ष्या᳖णाम्। दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒कऽआ॑र॒ण्यस्ते॑ प॒शुः ॥६॥
प॒रि॒वीरिति॑ परि॒ऽवीः। अ॒सि॒। परि॑। त्वा॒। दैवीः॑। विशेः॑। व्य॒य॒न्ता॒म्। परि॑। इ॒मम्। यज॑मानम्। रायः॑। म॒नुष्या᳖णाम्। दि॒वः। सू॒नुः। अ॒सि॒। ए॒षः। ते। पृथि॒व्याम्। लो॒कः। आ॒र॒ण्यः। ते॒। प॒शुः ॥६॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर यह उपासना करनेवाला सभाध्यक्ष किस प्रकार का होता है, यह अगले मन्त्र में उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरेतदुपासकः सभाध्यक्षः कीदृगित्युपदिश्यते ॥
(परिवीः) यथा परितः सर्वतः सर्वा विद्या व्येति व्याप्नोति तथा (असि) (परि) सर्वतः (त्वा) त्वां सभाध्यक्षम् (दैवीः) देवानां विदुषामिमाः (विशः) प्रजाः (व्ययन्ताम्) विशिष्टतया प्राप्नुवन्तु जानन्तु वा (परि) सर्वतः (इमम्) प्रत्यक्षम् (यजमानम्) यज्ञानुष्ठातारम् (रायः) धनानि (मनुष्याणाम्) (दिवः) प्रकाशमयात् सूर्यात् सूयत उत्पद्यते किरणसमूह इव (असि) (एषः) (ते) तव (पृथिव्याम्) (लोकाः) राष्ट्रं राज्यस्थानम् (आरण्यः) अरण्ये भवः (ते) तव (पशुः) पश्यकश्चतुष्पात् सिंहादिः ॥ अयं मन्त्रः (शत०३.७.१-२१) व्याख्यातः ॥६॥