अ॒ꣳशुर॑ꣳशुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑। आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व। आप्या॑यया॒स्मान्त्सखी॑न्त्स॒न्न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय। एष्टा॒ रायः॒ प्रेषे भगा॑यऽऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥७॥
अ॒ꣳशुर॑ꣳशु॒रित्य॒ꣳशुःऽअ॑ꣳशुः। ते॒। दे॒व॒। सो॒म॒। आ। प्या॒य॒ता॒म्। इन्द्रा॑य। ए॒क॒ध॒न॒विद॒ऽइत्ये॑कधन॒ऽविदे॑। आ। तुभ्य॑म्। इन्द्रः॑। प्याय॑ताम्। आ। त्वम्। इन्द्रा॑य। प्या॒य॒स्व॒। आ। प्या॒य॒य॒। अ॒स्मान्। सखी॑न्। स॒न्न्या। मे॒धया॑। स्व॒स्ति। ते॒। दे॒व॒। सो॒म॒। सु॒त्याम्। अ॒शी॒य॒। एष्टा॒ इत्याऽइ॑ष्टाः। रायः॑। प्र। इ॒षे। भगा॑य। ऋ॒तम्। ऋ॒त॒वादिभ्य॒ इत्यृ॑तवा॒दिऽभ्यः॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म् ॥७॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह ईश्वर, बिजुली और विद्वान् कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशौ विद्वांश्चेत्युपदिश्यते ॥
(अंशुरंशुः) अवयवोऽवयवः। अत्राशूङ्व्याप्तौ संघाते भोजने चेत्यस्माद् बाहुलकादौणादिक उप्रत्ययो नुमागमश्च। (ते) तव तस्या वा (देव) दिव्यगुणैः सम्पन्नेश्वर, विद्युद् विद्वन् वा (सोम) सकलपदार्थानां जनक ! प्रकाशिके ! वा (आ) समन्तात् (प्यायताम्) वर्धयताम्। अत्रान्तर्गतो ण्यर्थः। (इन्द्राय) परमैश्वर्ययुक्ताय (एकधनविदे) य एकेन धर्मेण विज्ञानेन वा धनं विन्दति तस्मै (आ) अभितः (तुभ्यम्) अध्यापकाय मह्यमध्येत्रे वा (इन्द्रः) परमात्मा, विद्युद्वा (प्यायताम्) (आ) सर्वतः (इन्द्राय) दुःखविदारणाय (प्यायस्व) वर्धस्व, वर्धयेद्वा (आ) अभितः (प्यायय) वर्धय, वर्धयति वा (अस्मान्) (सखीन्) सुहृदः (सन्न्या) समानान् पदार्थान्नयति यया तया (मेधया) प्रज्ञया (स्वस्ति) सुखम् (ते) तव, तस्याः सकाशाद्वा (देव) दिव्यगुणप्रद, प्रदानहेतुर्वा (सोम) प्रेरक, प्रेरिका वा (सुत्याम्) सुन्वन्ति यया क्रियया तस्याम् (अशीय) व्याप्नुयां प्राप्नुयाम् (एष्टाः) सर्वत इष्टकारिणः (रायः) धनसमूहाः (प्र) प्रकृष्टार्थे (इषे) अन्नायेच्छायै वा (भगाय) ऐश्वर्याय (ऋतम्) यथार्थम् (ऋतवादिभ्यः) ऋतं वदितुं शीलं येषां तेभ्यः सत्यवादिभ्यो विद्वद्भ्यः (नमः) सत्कारमन्नम् (द्यावापृथिवीभ्याम्) प्रकाशभूमिभ्याम्। अयं मन्त्रः (शत०३.४.३.१८-२१) व्याख्यातः ॥७॥