आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ऽओजि॑ष्ठाय। अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा॑ऽअ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमु॑पगेषꣳ स्वि॒ते मा॑ धाः ॥५॥
आप॑तय॑ इत्याऽप॑तये। त्वा॒। परि॑पतय॒ इति॒ परि॑ऽपतये। गृ॒ह्णा॒मि॒। तनू॒नप्त्र॒ इति॒ तनू॒ऽनप्त्रे॑। शा॒क्व॒राय॑। शक्व॑ने। ओजि॑ष्ठाय। अना॑धृष्टम्। अ॒सि॒। अ॒ना॒धृ॒ष्यम्। दे॒वाना॑म्। ओजः॑। अन॑भिश॒स्तीत्यन॑भिऽशस्ति। अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति॒ऽपाः। अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभिऽशस्ते॒न्यम्। अञ्ज॑सा। स॒त्यम्। उप॑। गे॒ष॒म्। स्वि॒त इति॑ सुऽइते। मा॒। धाः॒ ॥५॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को किस-किस प्रयोजन के लिये परमात्मा की प्रार्थना, बिजुली का स्वीकार करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैः किमर्थः परमात्मा प्रार्थनीयः सा विद्युच्च स्वीकार्येत्युपदिश्यते ॥
(आपतये) समन्तात् पतिः पालको यस्मिंतस्मै (त्वा) परमेश्वरं विद्युतं वा (परिपतये) परितः सर्वतः पतयो यस्मिंस्तस्मै (गृह्णामि) स्वीकरोमि (तनूनप्त्रे) तनू देहान् नयन्ति प्राप्नुवन्ति येन तस्मै (शाक्वराय) शक्तिजननाय (शक्वने) शक्तिमद्वीरसैन्यप्राप्तये (ओजिष्ठाय) अतिशयेनौजो विद्यते यस्मिन् विद्याव्यवहारे तस्मै (अनाधृष्टम्) यन्न धृष्यते तेजस्तम् (असि) अस्ति (अनाधृष्यम्) न केनाऽपि धर्षितुं योग्यम् (देवानाम्) विदुषां पृथिव्यादीनां मध्ये वा (ओजः) पराक्रमकारि (अनभिशस्ति) यन्नाभिशस्यतेऽभिहिंस्यते तत् (अभिशस्तिपाः) योऽभिशस्तेर्हिंसनात् पाति रक्षति (अनभिशस्तेन्यम्) यदनभिशस्तेऽविद्यमानहिंसने नयति तत् (अञ्जसा) व्यक्तेन शत्रूणां म्लेच्छनेन कान्त्या ज्ञापनेन वा (सत्यम्) यथार्थम् (उप) सामीप्ये (गेषम्) प्राप्नुयाम् (स्विते) सुष्ठु ईयते प्राप्यते येन व्यवहारेण तस्मिन्। इदं पदमवैयाकरणेन महीधरेण लेट् लकारस्य रूपमित्यशुद्धं व्याख्यातम्। (मा) माम् (धाः) धेहि दधाति वा। अत्र लडर्थे लुङडभावश्च। अयं मन्त्रः (शत०३.४.२.१०-१४) व्याख्यातः ॥५॥